________________
मूलगुणाधिकारः ।
श्रादाननिक्षणसमितिस्वरूपं निरूपयन्नाह - णाणुवहि संजमुवहिं सउचुवहिं अण्णमप्पमुवहिं वा पयदं गहणिक्खेवो समिदी आदाणणिक्खेवा १४ ज्ञानोपधिं संयमोपधिं शौचोपधिं अन्यमप्युपधिं वा । प्रयतं ग्रहनिक्षेपौ समितिः आदाननिक्षेपा ॥ १४ ॥ णाणुवहि-ज्ञानस्य श्रुतज्ञानस्योपधिरूपकरणं ज्ञानोपधिर्ज्ञाननिमित्तं पुस्तकादि । संजमुवहि-संयमस्य पापक्रिया निवृत्तिलक्षणस्योपधिरूपकरण संयमोपधिः प्राणिदयानिमित्तं पिच्छिकादिः । सञ्चुवर्हि - शौचस्य पुरीषादिमलापहरणस्योपधि- रुपकरणं शौचोपधिर्मूत्रपुरीषादिप्रक्षालननिमित्तं कुंडिकादिद्रव्यम् । ज्ञानोपधिश्च संयमोपधिश्च शौचोपधिश्च ज्ञानोपत्रिसंयमोपधिशौचोपधयस्तेषां ज्ञानाद्युपधीनाम् । अण्णमविअन्यस्यापि संस्तरादिकस्य । उबहिं वा- उपधेर्वा उपकरणस्थ संस्तरादिनिमित्तस्य उपकरणस्य प्राकृतलक्षणबलादत्र षष्ठी विभ क्तिर्दृष्टव्या । पयदं प्रयत्नेनोपयोगं कृत्वा । गणिक्खेवो- ग्रहणं ग्रहः निक्षेपणं निक्षेपः, ग्रहश्च निक्षेपश्च ग्रहनिक्षेपौ । समिदीसमिति: । श्रादाणणिक्खेवा आदाननिक्षेपा । ज्ञानोपधिसंयमोपधिशौचोपधीनामन्यस्य चोपधेर्यत्नेन यौ ग्रहण निक्षपौ प्रतिलेखनपूर्वको सा आदाननिक्षेपा समितिर्भवतीत्यर्थः ॥ पंचमसमितिस्वरूपनिरूपणायाह
एगंते अचित्ते दूरे गूढे विसालमविरोहे |
PE
१६