________________
मूलाचारे एषणासमितिस्वरूपं प्रतिपादयन्नाहछादालदोससुद्धं कारणजुत्तं विसुद्धणवकोडी। सीदादीसमभुत्ती परिसुद्धा एसणासमिदी॥१३॥ षट्चत्वारिंशद्दोषशुद्धं कारणयुक्तं विशुद्धनवकोटि । शीतादिसमभुक्तिः परिशुद्धा एषणा समितिः ॥१३॥ . छाद.लदोससुद्ध-षड्भिरधिका चत्वारिंशत् षट्चत्वारिंशत् षट्चत्वारिंशतश्च ते दोषाश्च षट्चत्वारिंशदोषाः तैः शुद्धं निर्मल षट्चत्वारिंशदोषशुद्धं उद्गमोत्पादनैषणादिकलंकरहितम् । कारणजुत्त-कारणैनिमित्तयुक्तं सहितं कारणयुक्तं असातोदयजातबुभुक्षाप्रतीकारार्थ वैयास्यादिनिमित्तं च । विसुद्धणवकोडी-नव च ताः कोटयश्च विकल्पाश्च नवको. 'टयः विशुद्धा निर्गता नवकोटयो यस्माद्विशुद्धनवकोटि मनोवचनकायकृतकारितानुमतिरहितम् । सीदादि-शीतमादिर्यस्य तच्छीतादि शीतोष्णलवणसरसविरस रूक्षादिकम् । समभुनीसमा सदृशी भुक्तिर्भोजनं समभुक्तिः । शीतादौ समभुक्तिः शीतादिसमभुक्तिः शीतोष्णादिषु भक्ष्येषु रागद्वेषरहितत्वम् । परिसुद्धा-समन्ततो निर्मला । एसणासमिदी-एपणासमितिः । षट्चत्वारिंशदोषरहितं यदेतत् पिंडग्रहणं सकारणं मनोवचनकायकृतकारितानुमतिरहितं च शीतादौ सम्भुत्तिश्च, अनेन न्यायेनाचरता निर्मलैषणासमितिभवतीत्यर्थः ॥