________________
. मूलगुणाधिकारः। .. सेर्यासमितिर्भवतीत्यर्थः । अथवा संयतस्य जन्तून् परिहरतो यद्गमनं सेर्यासमितिः ॥ . भाषासमितेः स्वरूपनिरूपणायोत्तरसूत्रमाहपेसुण्णहासककसपरणिंदाप्पप्पसंसविकहादी। वजित्ता सपराहियं भासासमिदी हवे कहणं॥१२॥ पैशून्यहास्यकर्कशपरनिंदात्मप्रशंसाविकथादीन् । वर्जयित्वा स्वपरहितं भाषासमितिः भवेत् कथनम् ॥ ___पेसुण्ण-पिशुनस्य भावः पैशून्यं निर्दोषस्य दोषोद्भावनम्। हास-हसनं हासः हास्यकर्मोदयवशादधर्मार्थहर्षः। ककसकर्कशः श्रवणनिष्ठुरं कामयुद्धार्थप्रवर्तकं वचनम्।परणिंदा-परेषां निंदा जुगुप्सा परनिंदा परेषांतथ्यानामतथ्यानांवादोषाणामुद्भावनं प्रति समीहा अन्यगुणासहनम् । अप्पप्पसंसा-आत्मनः प्रशंसा स्तवः आत्मप्रशंसा स्वगुणाविष्करणाभिमायः । विकहादी-विकथा आदिर्येषां ते विकथादयः स्त्रीकथा, भक्तकथा, चौरकथा, राजकथादयः । एतेषां पैशून्यादीनां इंद्वसमासः । वजित्ता-वर्जयित्वा परिहत्य । सपरहियं-स्वश्च परश्च स्वपरौ ताभ्यां हितं स्वपरहितं, आत्मनोऽन्यस्य च सुखकरं कमबंधकारणविमुक्तम् । भासाममिदी-भाषासमितिः। हवे भवेत् । कहणं-कथनम् । पैशून्यहासकर्कशपरनिन्दात्मप्रशंसा. विकथादीन् वर्जयित्वा स्वपरहितं यदेतत् कथनं भाषासावितिर्भवतीत्यर्थः॥