________________
मूलाचारे जितप्रदेशे सम्यगवलोक्य मलाद्युत्सर्गः। तहा-तथैव । उच्चारादीण-उच्चारादीनां मूत्रपुरीषादीनां प्रतिष्ठापना सम्यक्परित्यागो यः सा प्रतिष्ठापनासमितिः। एवं पंचविहा-पंचप्रकारा एव समितयो भवन्तीत्यर्थः।
सामान्येन पंचसमितीनां स्वरूपं निरूप्य विशेषार्थमुत्तरमाहफासुयमग्गेण दिवा जुगंतरप्पेहिणा सकज्जेण । जंतूण परिहातेणिरियासमिदी हवेगमणं॥११॥ प्रासुकमार्गेण दिवा युगांतरप्रेक्षिणा सकार्येण । जंतून परिहरता ईर्यासमितिः भवेत् गमनम्॥११॥
फासुगमग्गेण-प्रगता असवो जीवा यस्मिन्नसौमासुक:पासु. कश्चासौ मार्गश्च मासुकमागों निरवद्यः पंथास्तेन मासुकमार्गेण गजखरोष्ट्रगोपहिषीजनसमुदायोपर्दितेन वर्मना । दिवा-दिवसे सूरोद्गमे प्रवृत्तचक्षुःमचारे युगंतरप्पेहिणा-युगान्तरं चतुइस्तप्रमाणं प्रेक्षतेपश्यतीति युगान्तरप्रक्षी तेन युगान्तरपेक्षिणा सम्यगवहितचित्तन पदनिक्षेपप्रदेशमवलोकमानेन । सकजेणकार्य प्रयोजनं शास्त्रश्रवणतीर्थयात्रागुरुप्रेक्षणादिकं सह कायेण वर्तते इति सकार्यस्तेन सकार्येण सप्रयोजनेन धर्मकार्यमन्तरेण न गन्तव्यमित्यर्थः । जंतूणि-जन्तून् जोवान् एकेन्द्रियप्रभृतीन् । परिहरन्तेण-परिहरता अविराधयता । इरियासमिदी-ईर्यासमितिः । हवे-भवेत् । गमणं-गमनम् । सकार्येण युगान्तरप्रेक्षिणा संयतेन दिवसे प्रासुकमार्गेण यदमनं क्रियते