SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ २३४ मूलाचारे आराधना सम्यग्दर्शनज्ञानचारित्रतपसामुद्योतनोद्यवननिर्वाहणसाधनादीनि तस्या नियुक्तिराराधनानियुक्तिः । मरणविभक्तिः सप्तदशमरणप्रतिपादकग्रन्थरचना संग्रहः पंचसंग्रहादयः । स्तुतयः देवागमपरमेष्ठयादयः । प्रत्याख्यानं त्रिविधचतुर्विधाहारपरित्याग प्रतिपादनो ग्रन्थः सावद्यद्रव्यक्षेत्रादिपरिहारप्रतिपादनो वा । आवश्यकाः सामायिकचतुर्विंशतिस्तववन्दनादिस्वरूपप्रतिपादको ग्रन्थः । धर्मक थास्त्रिषष्टिशलकापुरुषचरितानि द्वादशानुप्रेक्षादयश्च । ईदृग्भूतोऽन्योऽपि ग्रन्थः पठितुमस्वाध्यायेऽपि च युक्तः ॥ ८२ ॥ कालशुद्धयनन्तरं कस्मिन् ग्रन्थे कस्मिंश्चावसरे काः क्रियाः कर्तव्या इति पृष्टेऽत आहउद्देस समुद्दे से अणुणापणए अ होंति पंचेव । अंग सुदखंध झेणुवदेसा विय पदविभागीय ॥ उद्देशे समुद्देशे अनुज्ञार्पणायां च भवंति पंचैव अंगश्रुतस्कंधप्राभृतप्रदेशा अपि पदविभागी च ॥८३ 1 उद्देशे प्रारम्भकाले, समुद्देशे शास्त्रसमाप्तौ, अनुज्ञार्पणायां गुरोरनुज्ञायां भवति पंचैव । नात्र केचन निर्दिष्टास्तथाप्युपदेशादुपवासा: कायोत्सर्गा वा ग्राहयाः । अथवा अनुज्ञायां एतावत्पंच पाका व्यवहाराः प्रायश्चित्तानि पंचैव भवन्ति ते चोपवासा: कायोत्सर्गा वा । अंगं द्वादशाङ्गानि । श्रुतं
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy