________________
२३२
मूलाचारेस्वाध्यायकरणप्रदेशे चतसृषु दिक्षु हस्तशतचतुष्मात्रेण सर्वाणि वर्जनीयानि । यदि शोधयितुं न शक्यन्ते तत्क्षेत्रं द्रव्यं च त्याज्यं तस्मिन् सजीवे सति स्वाध्यायो न कर्तव्यः । प्रवक्तश्रोत्रादिभिरुष्णोदकादीनि ग्राह्याणि, घृतप्रचुरहेत्वाहारादिन ग्राहयः, जोर्णादयोऽपि न कर्तव्याः । द्रव्यशुद्धिं क्षेत्रशुद्धि चेच्छुभिः क्रोधादयोऽपि संक्लेशा वर्जनीयाः । क्रोधमानमायालोभासूयेादीनामभावो भावशुद्धिः पठनकाले कर्तच्या अत्यर्थमुपसमादयो भावयितव्याः । कालशुद्धयादिभिः शास्त्रं पठितं कर्मक्षयाय भवत्यन्यथा कर्मवन्धायेति ॥ ७९ ॥ ___ कालशुद्धयां यद्यत्सूत्रं पठ्यते तत्तत्केनोक्तमत आहसुचं गणधरकाधिदं तहेव पत्तेयबुद्धिकाथदं च । सुदकेवलिणा कधिदं अभिण्णदसपुवकधिदं च सूत्रं गणधरकथित तथैव प्रत्येकबुद्धिकथितं च । श्रुतकेवलिना कथितं आभिन्नदशपूर्वकथितं च ८०
सूत्रं अंगपूर्ववस्तुपाभृतादि गणधरदेवैः कथितं सर्वज्ञमुखकमलादर्थ गृहीत्वा ग्रन्थस्वरूपेण रचित गौतमादिभिः । तथैवैकं कारणं प्रत्याश्रित्य बुद्धाः प्रत्येकबुद्धा : धर्मश्रवणायुपदेशमन्तरेण चारित्रावरणादिक्षयोपशमात्, ग्रहणोल्कापातादिदर्शनात् संसारस्वरूपं विदित्वा गृहीतसंयमा: प्रत्येकबुदास्तैः कथितं । श्रुतकेवलिना कथित रचित द्वादशांगचतु.