SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ पंचाचाराधिकारः ॥५॥ २३१ कलहादिधूम्रकेतुः धरणीकंपश्च अभ्रगर्जं च । इत्येवमादिबहुका स्वाध्याये वर्जिता दोषाः॥ ७८ ॥ कलहः क्रोधाद्याविष्टानां वचनप्रतिवचनैजल्पः महोपद्रवरूपः । धादिशब्देन खङ्ग-कृपाणी-लकुटादिभियुद्धानि परगृह्यन्ते । धूमकेतुर्गगने धूमाकाररेखाया दर्शन । धरणीकम्प पर्वतपासादादिसमन्विताया भूमेश्चलनं । चकारेण शोणितादिवर्षस्य ग्रहणं । अभ्रगर्जनं मेघध्वनिः । चकारेण महावातानिदाहादयः परिगृह्यन्ते । इत्येवमायन्येऽपि बहवः स्वाध्यायकाले वर्जिताः परिहरणीया दोषाः सर्वलोकानामुपद्रवहेतुत्वात् । एते कालशुद्धयां क्रियमाणायां दोषाः पठनोपाध्यायसंघराष्ट्रराजादिविप्रकारिणो यत्नेन त्याज्या इति ॥७८॥ कालशुद्धिं विधाय द्रव्यक्षेत्रभावशुद्धयर्थमाहरुहिरादिपूयमंसं दवे खेचे सदहत्थपरिमाणं । .. कोषादिसंकिलेसा भावविसोही पढणकाले ७९ रुधिरादि पूतिमांसं द्रव्ये क्षेत्रे शतहस्तपरिमाणं । क्रोधादिसंक्लेशो भावविशुद्धिः पठनकाले ॥ ७९ ॥ रुधिरं रक्तं । आदिशब्देनाशुचिशुक्रास्थित्रणादीनि परिगृह्यन्ते, पूर्य-कुथितक्लेदः । मांसं आई पंचेन्द्रियावयवः । द्रव्ये आत्मशरीरे-न्यशरीरे (ण) वैतानि वर्जनीयानि । क्षेत्रे
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy