SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २३० मूलाचारेरहस्वाध्याये तथा प्रदोषवाचनानिमित्त पंच पंचगाथाप्रमाणं प्रतिदिशं घोष्यमिति । सर्वत्र दिशादाहायभावे कालशुद्धिरिति ॥ ७६ ॥ अथ के ते दिग्दाहादय इति पृष्टे तानाहदिसदाह उक्कपडणं विज्जु चडुक्कासाणंदधणुगं च दुग्गंधसज्झदुद्दिणचंदग्गहसूरराहुजुझं च ७७ दिग्दाहः उल्कापतनं विद्युत् चडत्काराशनींद्रधनुश्च दुगंधसंध्यादुर्दिनचन्द्रग्रहसूरराहुयुद्धं च ॥ ७७ ॥ दिशां दाह उत्पातेन दिशोऽग्निवर्णाः । उल्कायाः पतनं गगनात् तारकाकारेण पुद्गलपिण्डस्य पतनं । विद्युच्चैक्यचिक्यं, चडत्कारः वज्रं मेघसंघट्टोद्भवं । अशनिः करक निचयः । इन्द्रधनुः धनुषाकारेण पंचवर्णपुद्गलनिचयः । दुर्गन्यः पूतिगन्धः । सन्ध्या लोहितपीतवर्णाकारः । दुर्दिनः पतदुदकाभ्रसंयुक्तो दिवसः । चन्द्रयुद्धं, ग्रहयुद्धं, सूरयुद्धं राहुयुदं च । चन्द्रस्य ग्रहेण भेदः संघटो वा, ग्रहस्यान्योन्यग्रहेण भेदाः संघट्टादिर्वा, सूर्यस्य ग्रहेण भेदादिः, राहोश्वन्द्रेण सूर्येण वा संयोगो ग्रहणमिति । चशब्देन निर्घातादयो गृह्यन्त इति ॥ ७॥ कलहादिधूमकेदू धरणीकंपंच अब्भगजं च । . इच्चेवमाइबहुया सज्झाए वाजिदा दोसा ॥७॥
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy