________________
१२८
मूलाचारेरहे च सवितुरस्तमनकाले यदा जंघाच्छाया सप्तवितस्तिमात्रा तिष्ठति तदा स्वाध्याय उपसंहरणीय इति ॥ ७४ ।।
पूर्वागहे स्वाध्यायस्य परिसमाप्तिः कस्यां वेलायां क्रियत इति पृष्टेऽत आहआसाढे दुपदा छाया पुस्समासे चदुप्पदा। वड्ढदे हीयदे चावि मासे मासे दुअंगुला ॥५ आषाढे द्विपदा छाया पुष्यमासे चतुष्पदा । वर्धते हीयते चापि मासे मासे व्यंगुला ॥ ७५ ॥
जंघाच्छाया इत्यनुवर्तते । मिथुनराशौ यदा तिष्ठत्यादित्यः स काल प्राषाढमास इन्युच्यते । मासस्त्रिंशद्रात्रः समुदाये वर्तमानोऽप्यत्र मासावसाने दिवसे वर्तमानो गृहयते समुदाये हि वृत्ताः शन्दा अवयवेष्वपि वर्तन्त इति न्यायात् । एवं पुष्यमासेऽपि निरूपयितव्यः । आषाढमासे यदा द्विपदा जंघाच्छाग पूर्णरहे तदा स्वाध्याय उपसंहर्त्तव्यः । अत्र पडं. गुलः पादः परिगृह्यते । तथा पुष्यपासे मध्यान्होदये यदा चतुष्पदा जंघाच्छाया भवति तदा स्वाध्यायो निष्ठापायव्यः । आषाढमासान्तदिवसादारभ्य मासे मासे द्वे वे अङगुले ताववृद्धिमागच्छते यावत्पुष्यमासे चतुष्पदाच्छाया सजाता। पुनस्तस्मादारभ्य द्वे वे अंगुले मासे मासे हानिमुपनेतव्ये यावदापाढे मासे द्विपदाच्छाया संजाता । ककेटसंक्रान्तः प्रथम