________________
२२६
मूलाचारमानसशुद्धपरिणामैः स्थितस्य तेन वा योऽयं श्रुतस्य पाठो व्याख्यानं परिवर्तनं यत्स विनयाचारः। (उवहाणे-) उपपानं अवग्रहविशेषेण पठनादिकं साहचर्यात् उपधानाचारे (रः )। बहुमान पूजासत्कारादिकेन पाठादिकं बहुमानाचारः । तथैवानिन्हवनं यस्मात्पठितं श्रुतं स एव प्रकाशनीयः यद्वा पठित्वा श्रुत्वा ज्ञानी सञ्जातस्तदेव श्रुतं ख्यापनीयमिति अनिन्हवाचारः, व्यञ्जनं-वर्णपदवाक्यशुद्धिः, व्याकरणोपदे. शेन वा तथा पाठादियजनाचारः । अत्य-अर्थोऽभिधेयोऽनेकान्तात्मकस्तेन सह पाठादि अर्याचारः। शब्दार्थद्धथा पाठादि तदुभयाचारः । सर्वत्र साहचर्यात् कार्य कारणाधुपचाराद्वाऽभेदः। कालादिशुद्धिभेदेन वा ज्ञानाचारोऽष्टविध एव, अधिकरणभेदेन वाधारस्य भेदः । प्रथमा विभक्तिः सप्तमी वा दृष्टव्या ॥७२॥ • कालाचारप्रपंचप्रतिपादनार्थमाहपादोसियवेरचियगोसग्गियकालमेव गेण्हिता। उभये कालमि पुणो सज्झाओ होदि कायबो७३ प्रादोषिकवैरात्रिकगौसर्गिककालमेव गृहीत्वा ।। उभययोःकालयोः पुनः स्वाध्यायः भवति कर्तव्यः । - प्रकृष्टा दोषा रात्रियस्मिन् काले स प्रदोषः कालः रात्रेः पूर्वभाग इत्यर्थः । तत्सामीप्यादिनपश्चिमभागोऽपि प्रदोष इ.