________________
पंचाचाराधिकारः ॥५॥ स्य ज्ञानस्य स्वरूपं प्रतिपादयमाहजेण रागा विरजेज जेण सेएसु रजदि। जण मित्ती पभावेजतंणाणं जिणसासणे॥७१ येन रागात् विरज्यते येन श्रेयसि रज्यते। येन मैत्री प्रभावयेत् तत् ज्ञानं जिनशासने ॥ ७१६ . येन रागात् स्नेहा कामक्रोधादिरूपाद्विरज्यते पराङ्मुखो भवति जीवः । येन च श्रेयसि रज्यते रक्तो भवति । येन मैत्री द्वेषाभावं प्रभावयेत् तज्ज्ञानं जिनशासने । किमुक्तं भवति-अतत्त्वे तत्त्वबुद्धिरदेवे देवताभिमायो नागमे प्रागमबुद्धिरचारित्रे चारित्रबुद्धिरनेकान्ते एकान्तबुद्धिरित्यवानम् ॥ ७१॥
ज्ञानाचारस्य कति भेदा इति पृष्टेऽत पाहकाले विणए उवहाणे बहुमाणे तहेव णिण्हवणे । वंजण अत्थ तदुभए णाणाचारोदु अट्ठविहो ॥ काले विनये उपधाने बहुमाने तथैवानिलवने । व्यंजनमर्थस्तदुभयं ज्ञानाचारस्तु अष्टविधः ॥७२॥
काले-स्वाध्यायवेलायां पठनपरिवर्तनव्याख्यानादिकं क्रियते सम्यक् शास्त्रस्य यत्स कालोऽपि ज्ञानाचार इत्युच्यते, साहचर्यात्कारणे कार्योपचाराद्वा । विणए-कायिकवाचिक