________________
२२४ - मूलाचारयेन तत्वं विबुध्यते येन चित्तं निरुध्यते। येन आत्मा विशुध्यते तत् ज्ञानं जिनशासने ॥७०
येन तत्वं वस्तुयाथात्म्यं विबुध्यते परिच्छिद्यते येन च चिंच मनोव्यापारोनिरुध्यते अात्मवशं क्रियते येन चात्मा जीवो विशुद्धयते वीतरागः क्रियते परिच्छिद्यते तज्ज्ञानं जिनशासने प्रमाणं मोक्षप्रापणाभ्युपायं संशयविपर्ययानध्यवसायार्किचित्करविपरीतं प्रत्यक्ष परोक्षं च तत्र प्रत्यक्ष द्विप्रकारं मुख्यममुख्यं च, मुख्य विविध देशमुख्यं परमार्थमुख्यं, देशमुख्यमवधिज्ञानं मनःपर्ययज्ञानं च, परमार्थमुख्य केवलज्ञानं, सर्वद्रव्यपर्यायपरिच्छेदात्मकं । अमुख्यं प्रत्यक्षेन्द्रियविषयसन्निपातानन्तरसमुद्भूतसविकल्पकमीपत्सत्यक्षभूतं । परोक्षं श्रुतानुमानापतितकॊपमानादिभेदेनानेकप्रकारं, श्रुतं मतिपूर्वकं इन्द्रियमनोविषयादन्यार्थविज्ञानं यथाग्निशब्दात् खपरविज्ञानं । अंगपूर्व वस्तुप्राभृतकादि सर्व श्रुतज्ञानं । अनुमानं त्रिरूपं त्रिविलिंगादुत्पन्न साध्याविनाभाविलिङ्गादुत्पन्न वा एतच्छ्रतज्ञानेप्यन्तर्मवति । एकमर्थं जातं दृष्ट्वाविनामावेनान्य. स्वार्थस्य परिच्छित्तिरपत्तिर्यया शूनपीनांगो देवदत्तो दिवा न भुक्ते अर्थादापन्नं रात्रौ भुक्ते इति । प्रसिद्धसाघ
ात्साध्यसाधनमुपमानं यथा गौस्तथा गवय इति । साध्यसाधनसम्बन्धग्राहकस्तः सर्वमेतत्परोक्षं ज्ञानम् ॥ ७० ॥
सम्यक्त्वसहचरं झामस्वरूपं व्याख्याय चारित्रसहचर