SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ २१६ मूलाचारे श्रान्तस्याप्युपानत्कादिरहितस्यापि मार्गयानं । निसीधियानिषिद्या श्मशानोद्यानशून्यायतनादिषु वीरासनोत्कुटिकाद्यासनजनितपीडा । सेज्जा - शय्या स्वाध्यायच्या नाध्वश्रमपरिखेदितस्य खरविषममचुरशर्कराद्याकीर्णभूमौ शयनस्यैकपाइनें दण्डशयनादिशय्याकृतपीडा । अक्कोसो - आक्रोशस्तीर्थयात्राद्यर्य पर्यटतः मिथ्यादृष्टिविमुक्तावज्ञासंघ निन्दावचन कृता बाधा । वह - बधः मुद्गरादिप्रहरणकृतपीडा । जायां- श्रयाञ्चा अकारोत्र लुप्तो दृष्टव्यः प्राणात्ययेऽपि रोगादिभिः पीडितस्यायाचयतः अयाञ्चापीडा । अथवा वरं मृतो न कश्चिद्याचितव्यः शरीरादिसंदर्शनादिभिः यांचा तु नाममहापीडा अलाहो अलाभः अंतरायकर्मोदयादाहाराद्यलाभकृतपीडा । रोय रोगो ज्वरकासभगन्दरादिजनितव्यथा । त फास - तृणस्पर्शः शुष्कतृणपरुषशर्कराकण्टक निशितमृत्तिकाकृतशरीरपादवेदना । जल्ल - सर्वागीणं मलमस्नानादिजनितप्रस्वेदाद्युद्भवा पीडा । सक्कारो - सत्कारः पूजाप्रशंसात्मकः । पुरस्कारो नमन क्रियारम्भादिष्वग्रतः करणमामंत्रणं । तह चैत्र - तथा चैव । पराणप्रज्ञा विज्ञानमदोद्भूतगर्वः । परिसह - परीषहः । पीडाशब्दः सर्वत्रापि सम्बध्यते । तुत्परिषहः, तृणपरिषहः, दंशमशकपिपीलिकामत्कुमादिभक्षणपरीषह इत्यादि । श्रयणाणंअज्ञानं सिद्धान्तव्याकरणतर्कादिशास्त्रापरिज्ञानोद्भूतमनःसन्ताप: । अदंसणं- प्रदर्शनं महाव्रतानुष्ठानेनाप्यदृष्टाविशयचामा उपलक्षणमात्रमेतत् अन्येप्यत्र पीडाहेतवो दृष्टव्याः । ,
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy