________________
पंचाचाराधिकारः ॥५॥ २१३ धर्मे च आभिलाषःकुधर्मकांक्षा भवति एषा ॥ ५ ॥
रक्तपट-चरक--तापस-परिव्राजकादीनामन्यतीथिकानां धर्मविषये योऽभिलाषः कुधर्मकांक्षषा भवति । चत्वारो रक्तपटा वैभाषिकसौत्रान्तिकयोगाचारमाध्यमिकमेदात् । नैवायिकवैशेषिकदर्शने चरकशब्देनोच्येते कणचरादिर्वा । कन्दफलमूलायाहारा भस्मोद्गुण्ठनपरा जटाधारिणो विनयपरास्तापसाः । सांख्यदर्शनस्थाः पंचविंशतितश्वज्ञाः परिव्राजकशब्देनोच्यन्ते इत्येवमाद्यन्येष्वपि तैर्थिकमतेष्वभिलाषः कुधमेकांक्षेति । कथमेषां कुधर्मत्वं चेत् पदार्थानां तदीयानां विचार्यमाणानामयोगात्सर्वथा नित्यक्षणिकोभयत्वात् । इन्द्रियसंयमप्राणसंयमजीवविज्ञानपदार्थसर्वज्ञपुण्यपापादीनां परस्परविरोधाच्चेति ॥ ५४॥ विचिकित्सास्वरूपमाहबिदिगिच्छा वि यदुविहा
दवे भावे य होइ णायव्वा। उच्चारादिसु दवे
खुधादिए भावविदिगिंछा ५५ विचिकित्सापि च द्विविधा
द्रव्ये भावे च भवति ज्ञातव्या ।