________________
२०६
पंचोचाराधिकारः ॥५॥ मिथ्यादृष्टयाद्युपशान्तानामेतद व्याख्यानं वेदितव्यं । कुतो यतो योगः प्रकृतिप्रदेशबन्धौ करोति कषायाश्च स्थित्यनुभागौ कुर्वन्ति, अतोऽ परिणतयोरयोगिसिद्धयोः सयोग्ययोगिनोवोच्छिमस्य क्षीणकषायस्य च बन्धस्थितेः कारणं नास्ति । ननु क्षीणकषायसयोगिनोर्योगोऽस्ति, सत्यमस्ति, किंतु तस्याकिञ्चित्करत्वादभाव एवेति ॥ ४७॥
निर्जराभेदार्थमाहपुवकदकम्मसडणंतुणिजरासा पुणो हवे दुविहा पढमा विवागजादा विदिया अविवागजादा य पूर्वकृतकर्मसटनं तु निर्जरा सा पुनर्भवेत् द्विविधा। प्रथमा विपाकजाता द्वितीया अविपाकजाता च ४८॥
अथ का निर्जरा ? पूर्वकृतकर्मसटनं गलनं निजरेत्युच्यते सा पुनर्निर्जरा द्विविधा द्विपकारा भवेत् । प्रथमा विपाकजातोदयस्वरूपेण कर्मानुभवनं । द्विनीया निर्जरा भवेदविपाकजातानुभवमन्तरेणैकहेलया कारणवशात् कर्मविनाशः ॥४८॥ विपाकजाताविपाकजातयोनिर्जरयोदृष्टान्तद्वारेण स्वरूपमाहकालेण उवाएणय पचति जघा वणप्फदिफलाणि तध कालेण उवाएणय पचंति कदाणि कम्माणि४९ कालेन उपायेन च पच्यते यथा वनस्पतिफलानि ।
१ तवेण य' इत्यपि पाठः।।