________________
૧૦૮
मूलाचारे
यथा धातुः कनकं श्रग्निसंयोगेन शुद्धं भवति, तथा तपोयोमेन जीवः शुद्धो भवति ॥ ४६ ॥
किमर्थं सकारणा निर्जरा व्याख्याता बन्धादयश्च सहेतवः नित्यपक्षेऽनित्यपक्षे च किमर्थमिति । तत्सर्वं न घटते यतः कुतः ? जोगा पयडपदेसा ठिदिअणुभागं कसायदो कुणदि अपरिणदुच्छिष्णेसु य बंधट्ठिदिकारणं णत्थि ४७ योगात् प्रकृतिप्रदेशौ स्थित्यनुभागौ कषायतः करोति अपरिणतोच्छिन्नेषु च बंधस्थितिकारणं नास्ति ॥४७॥
चतुर्विधो बन्धः प्रकृतिस्थित्यनुभागमदेशभेदेन, कार्मणवर्गणागतपुद्गलानां ज्ञानावरणादिभावेन परिणामः प्रकृतिबन्धः । तेषां कर्मस्वरूपपरिणातानामनन्तानन्तानां जीवप्रदेशैः सह संश्लेषः प्रदेशबन्धः । तेषां जीवप्रदेशानुश्लिष्टानां जीवस्वरूपान्यथाकरणस्सोऽनुभागबन्धः । तेषामेव कर्मरूपेण परिणतानां पुगलानां जीवप्रदेशैः सह यावत्कालमवस्थितिः स स्थितिबन्धः | योगाज्जीवाः प्रकृतिबन्धं प्रदेशबन्धं च करोति । कषायेण स्थितिबन्धमनुभागबन्धं च करोति । अथवा योगः प्रकृतिबन्धं प्रदेशबन्धं च करोति । कषायाः स्थितिबन्धमनुभागबन्धं च कुर्वन्ति । यतोऽतोऽपरिणतस्य नित्यस्य, उच्छिन्नस्य निरन्वयक्षणिकस्य च बन्धस्थितेः कारणं नास्ति । श्रथवाऽयमभिसम्बन्धः कर्तव्यो