SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ पंचाचाराधिकार ॥५॥ २०७ स कर्मनिर्जरायां विपुलायां वर्तते जीवः ॥४५॥ निर्जरकनिर्जरानिर्जरोपायास्तत्र निर्जरकः किविशिष्ट इत्यत पाह-संयमो द्विविध इन्द्रियसंयमः प्राणसंयमश्च । जोगे-योगः यत्नः शुभमनोवचनकायो ध्यानं वा । संयमयोगयुक्तो यस्तपसा तपसि वा चेष्टते प्रवर्ततेऽनेकविधे द्वादशविधे वा, द्वादशविधं तपो यः करोति यत्नपरः स कर्मनिर्जरायां कर्मविनाशे वर्तते जीवः । अनेन निजरोपायश्च व्याख्यातः । पूर्वसूत्रेष्वप्येवं व्याख्येयं, बन्धको बन्धो बन्धोपायः । आवस्रक आस्रव प्रास्रवोपायः । संवरको संवरः संवरोपायः। अनेन व्याख्यानेन पौनरुक्त्यं च न भवतीति ॥ ४५ ॥ दृष्टान्तद्वारेण जीवकर्मणो शुद्धिमाहजहधाऊधम्मतो सुज्झदि सोअग्गिणा दुसंतचो तवसा तथा विसुज्झदि जीवो कम्मेहिं कणयंव ॥ यथा धातुः धम्यमानःशुद्ध्यतिस अग्मिना तुसंतप्तः तपसा तथा विशुद्ध्यति जीवः कर्मभिः कनकं इव ४६ यथा धातुपाषाणः कनकोपलो धम्यमानस्तप्यमानः शुद्धयते सोऽमिना तु संतप्तो दग्धः किट्टकालिकादिरहितः संजायते, तया तपसा विशुद्धते जीवः कर्मभिः कनकमिव ।
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy