________________
पंचाचाराधिकारः ॥ ५॥ २३ इत ऊर्ध्वं पुण्यपापासवकारणमाहपुण्णस्सासवभूदा अणुकंपा सुद्ध एव उवओगो। विवरीदं पावस्स दु आसवहेउं वियाणाहि ३८ पुण्यस्यासूवभूता अनुकंपा शुद्ध एव उपयोगः। विपरीतः पापस्य तु आस्रवहेतुं विजानीहि ॥ ३८ ॥
पुण्यस्य सुखनिमिचपुद्गलस्कन्धस्यासूवभूता प्रास्रवत्यागच्छत्यनेनेत्यास्रवः प्रास्त्रवणमात्रं वास्रवः प्रास्रवभूता द्वारभूता कारणरूपा अनुकम्पा कृपा दया शुद्धोपयोगश्च शुद्धमनोवाक्कायक्रिया इत्यर्थः शुद्धज्ञानदर्शनोपयोगश्चाभ्यामनुकम्पाशुखोपयोगाभ्यां । विवरीद-विपरीतोऽननुकम्पाऽ शुद्धमनोवाक्कायक्रियाः मिथ्याज्ञानदर्शनोपयोगः। पावस्स दु-पापस्यैव । पासव-आस्रव आगमहेतुस्तमास्रवहे. तुं । वियाणाहि विजानीहि बुध्यस्व । पूर्वगाथार्थेनास्य गायार्थस्य नैकार्य बन्धास्रवोपकारेण प्रतिपादनात् पूर्वैः कारणैः पुण्यबन्धः पापबन्धश्च व्याख्यातः, प्राभ्यां पुनः कारणाभ्यां शुभास्रवः शुभकर्मागमोऽशुभास्रवोऽशुभकर्मागमो व्याख्यातः । पुण्यस्यागमनहेतू अनुकम्पाशुद्धोपयोगी जानीहि, पापागमस्य तु विपरीतावननुकंपाऽशुद्धोपयोगौ हेतू विजानीहीति ॥ ३८ ॥
ननु जीवनदेशानाममूर्तानां कयं कर्मपुद्गलैमूतः सह