________________
मूलाचार- . छायादिकं च कारणं । अथ रूपादयः कस्य कारणमिति चेत्, रूपरसगन्धस्पर्शादयः कारणं कर्मबन्धस्य, जीवस्वरूपान्यथानिमित्तकर्मबन्धस्योपादनहेतवः रूपादिवन्तः पुद्गलाः । कथं पुद्गला इति लभ्यन्ते, तेनाभेदोपचारात् तात्स्याद्वा बन्धः पुगलरूपो भवतीत्यर्थः ॥ ३६॥ .
कर्मवन्धो द्विधा पुण्यपापभेदादतस्तत्स्वरूपं तनिमित्तं च प्रतिपादयत्राहसम्मचेण सुदेणय विरदीए कसायणिग्गहगुणेहिं जो परिणदो स पुण्णो तविवरीदेण पावंतु॥३७ सम्यक्त्वेन श्रुतेन च विरत्या कषायनिग्रहगुणैः । यः परिणतस्तत्पुण्यं तद्विपरीतेन पापं तु ॥३७ ॥ ___ सम्यक्त्वेन, श्रुतेन, विरत्या पंचमहाव्रतपरिणत्या, तथा कषायनिग्रहगुणैरुत्तमक्षमामार्दवावसन्तोषगुणः चशब्दादिन्द्रियनिरोधैश्च जो परिणदो-यः परिणतो जीवस्तस्य यत्कर्म संश्लिष्टं तत्पुण्यमित्युच्यते, अथवा सम्यक्त्वादिगुणपरिगतो जीवोऽपि पुण्यमित्युच्यते अभेदात् । अथवा सम्यक्त्वादिकारणेन यः कर्मबन्धःस पुण्यमित्युच्यते । तबिवरीदेण-तविपरीतेन मिथ्यात्वाज्ञानासंयमकषायगुणैर्यः परिणतः पुद्गलनिचयस्तत्पापमेव । शुभप्रकृतयः पुण्यमशुभप्रकृतयःपापमिति पुमयपापासूवको जीवौ वानेन व्याख्यातो, ॥ ३७॥