________________
पंघाचाराधिकारः ॥५॥
२०१ व्याख्यात इति । रूपिणः पुदला इति झापनार्थ पुनः स्कंधादिग्रहणमतो न पौनरुत्यं । धर्मादीनां च स्कन्धादिभेदप्रतिपादनार्थ च पुनर्ग्रहणम् ॥ ३५॥
ननु यदेवार्थक्रियाकारि तदेव परमार्थ सत् तदेषां धर्मादीनां किं कार्य ? केषामेतानि कारणान्यत बाहगदिठाणोग्गाहणकारणाणि कमसोदुवत्तणगुणोय रूवरसगंधफासदि कारणा कम्मबंधस्स ॥३६॥ गतिस्थानावगाहनकारणानि क्रमशःतु वर्तनागुणश्व रूपरसगंधस्पर्शादि कारणं कर्मबंधस्य ॥ ३६॥ ___ गदि-गतिर्गमनक्रिया । ठाणं-स्थान स्थितिक्रिया । अोगाहण-अवगाहनमवकाशदानमेषां कारणाणि-निमित्तानि । कमसो-क्रमशः यथाक्रमेण । वत्तणगुणोय-वर्तनागुणश्च परिणामकारणं । गतेः कारणं धर्मद्रव्यं जीवपुद्रला. नां । तथा तेषामेव स्थिते. कारणमधर्मदव्यं । अवकाशदाननिमित्तमांकाशद्रव्यं पंचद्रव्याणां । तथा तेषामपि वर्तनालक्षणं कालद्रव्यं स्वस्य च परमार्थकालग्रहणात् । धर्माधर्माकाशकालद्रव्याणि स्वपरिणामनिमित्तानि परेषां गत्यादीनां निमिचान्यपि भवन्ति, अनेककार्यकारित्वाद् द्रव्याणां तस्मान विरोधो यथा मत्स्यः स्वगतेः कारण, जलमपि च कारणं तद्गतः, स्वगतेः कारणं पुरुषः सुखा पन्याश्च । तया स्वस्थितेः कारणं पुरुषः,