________________
पंचाचाराधिकारः ॥ ५ ॥
१६६
स्कंधश्व स्कंधदेशः स्कंधप्रदेशः अणुश्च तथा ॥ ३३ ॥ अज्जीवा विय- अजीवाचाजीवपदार्थाश्च । दुविहा - द्विप्रकाराः । रूवा - रूपिणो रूपरसगन्धस्पर्शवन्तो यतो रूपादिनाभाविनो रसादयस्ततो रूपग्रहणेन रसादीनामपि ग्रहणं । अरूवा य-अरूपिणश्च रूपादिवर्जिताः । रूविणो - रूपिणः पुद्गलाः । चदुधा - चतुःप्रकाराः । के ते चत्वारः प्रकारा इत्यत चाह - संधाय - स्कन्धः । खंधदेसा-स्कन्धदेशः । खंधपदेसास्कन्धप्रदेशः । अणूयतहा - अणुरपि तथा परमाणुः । रूप्यरूपिभेदेनाजीवपदार्था द्विप्रकाराः, रूपिणः पुनः स्कन्धादिभेदेन चतुःप्रकारा इति ॥ ३३ ॥ स्कन्धादिस्वरूपप्रतिपादनार्थमाह
खंघं सयलसमत्थं तस्स दु अद्धं भांति देसोत्ति । अद्धद्धं च पदेसो परमाणू चेय अविभागी ॥३४॥ · स्कंधः सकलसमर्थः तस्य तु अर्धं भणंति देश इति । अर्धार्धं च प्रदेशः परमाणुः चैव अविभागी ॥ ३४ ॥
खंधं-स्कन्धः । सयल-सह कलाभिवर्तते इति सकलं सभेदं परमाण्वन्तं । समत्थं - समस्तं सर्व पुद्गलद्रव्यं । सभेदं स्कन्धः सामान्यविशेषात्मकं पुद्गलद्रव्यमित्यर्थः । अतो न सकलसमस्तयोः पौनरुक्त्यं । तस्स दु तस्य तु स्कन्धस्य । श्रद्धंअर्ध सकलं । भणति - वदन्ति । देसोत्ति-देश इति तस्य सम