________________
पंचाचाराधिकारः ॥ ५॥
१६५
सुरणरयतिरिय-सुरनारकतिरश्चां । चउरो- चत्वारः । चोदश - चतुर्दश । मणुपसु - मनुष्याणां । सदसहस्सा - शतसहस्राणि । नित्यनिकोतानां सप्त लक्षाणि, योनीनामिति च चतुतिनकोतानां सप्तलक्षाणि, पृथिवीकायिकानां सप्तलक्षाणि, अकायिकानां सप्तलक्षाणि, तेजःकायिकानां सप्तलक्षाणि, वायुकायानां सप्तलक्षाणि योनीनामिति संबंधः । तरुणां दश लक्षाण, द्वीन्द्रियाणां द्वे लक्षे, त्रींद्रियाणां द्वे लक्षे, चतुरिंद्रयां द्वे लक्ष, सुराणां चत्वारि लक्षाणि, नारकाणां चत्वारि लक्षाणि, तिरश्चां पञ्चेन्द्रियाणां संज्ञिकानामसंज्ञिकानां च चत्वारि लक्षाणि । मनुष्याणां चतुर्दश लक्षाणि योनीनामिति । सर्वसमासेन चतुरशीतियोनिलक्षाणि भवन्तीति ॥ २३ ॥ मार्गणाद्वारेण च जीवभेदान् प्रतिपादयन्नाह
--
तसथावरा यदुविहा जोगगइकसायइंदियविधीहिं बहुविध भव्वा भव्वा एस गदी जीवाणसे ||३०|| त्रसस्थावराः च द्विविधा योगगतिकषायेंद्रियविधिभिः बहुविधा भव्याभव्या एषा गतिः जीवनिर्देशे ॥ ३० ॥
कायमार्गणाद्वारेण तस्थावराय - त्रसनशीलाखसा द्वींद्रियादयः स्थानशीलाः स्थावरा पृथिव्यादिवनस्पत्यन्ता: । दुबि - हा - द्विप्रकारानसस्थावरभेदेन द्विमकारा जीवाः । जोग-योग आत्मप्रदेशपरिस्पन्दरूपो मनोवाक्कायलक्षणस्त्रिमकारस्तस्य