________________
१९६
मूलाचारे
विधियोंगविधिस्तेन जीवास्त्रिमकारा मनोयोगिनो वाग्योगिनः काययोगिनश्चेति। मनोयोगिनश्चतुष्पकाराः सत्यानृतसत्या. नृतासत्यानृतभेदेन । एवं वाग्योगिनोऽपि चतुःप्रकाराः । काययोगिनःसप्तविधा औदारिकवैक्रियिकाहारकतन्मिश्रकार्मगभेदेन । गदि-गतिवान्तरमाप्तिः, गतेविधिगतिविधिस्तेन, गतिविधिना चतस्रो गतयस्तभेदेन जीवाश्चतुर्विधा भवन्ति ना.. रकतिर्यङ्मनुष्यदेवभेदेन तेऽपि स्वभेदेनानेकविधाः । कसायकषन्तीति कषायाः क्रोधमानमायालोमाः, अनंतानुबन्ध्यप्रत्याख्यानप्रत्याख्यानसंज्वलनभेदेन चतुःप्रकारास्तभेदेन प्राणिनोऽपि भिद्यन्ते। इंदिय-इन्द्र पात्मा तस्य लिंगं इन्द्रेण नामकमणा वा निर्वतितमिद्रियं तस्य विधिरिद्रियविधिस्तेनेंद्रियविधिना जीवाः पंचप्रकारा एकेद्रिय-द्वींद्रिय-त्रींद्रिय-चतुरिन्द्रिय-पंचेन्द्रियभेदेन । बहुविहा-बहुविधा बहुप्रकारा अनेन किमुक्तं भवति स्त्रीपुंनपुंसकभेदेन, ज्ञान-दर्शन-संयम-लेश्या-सम्यक्त्व-संज्ञाहारभेदेन च बहुविधास्ते सर्वेऽपि । ( भन्न-) भव्या निर्वाणपुरस्कृताः, (अभव्या-) अभव्यास्तद्विपरीता भवन्ति । जीवसमासभेदेन गुणस्थानभेदेन च बहुविधाः । एसगदी एषा गतिः । जीवणिदेसे-जीवनिर्देशे जीवमपंचे। गतींद्रियकाययोगवेदादिविधिभिः कुलयोन्यादिभिध बहुविधा जीवा इति, जीवनिर्देशे कर्तव्ये एतावती गतिः ॥ ३० ॥
ननु जीवभेदा एते ये व्याख्यातास्ते किंलक्षणाः ? इत्यत पाह