________________
पंचाचाराधिकारः ॥ ५॥
१६१
ज्ञात्वा सर्वजीवान् निशंका भवति कर्तव्या ॥ २३ ॥
कुल - कुलं जातिभेदः । जोगि - योनिरुत्पत्तिकारणं । कुलयोन्योः को विशेष इति चेन, वटपिप्पलकृमिशुक्तिमत्कुपिपीलिकाभ्रपरमक्षि- गोश्वक्षत्रियादि कुलं । कन्दमूलाण्डगर्भ रसस्वेद दियनिः । मग्गणावि य-मार्गणाश्च गत्यादय: । णादन्वा -- ज्ञातव्याः । सब्वजीवायां-सर्वजीवानां पृथिव्यादीनां । णाकण ज्ञात्वा । सव्वजीवे - सर्वजीवान् । निस्संका - निःशंका संदेहाभाव: । होदि - भवति । कादव्वा – कर्तव्या । कुलयोनिमार्गणाभेदेन सर्वजीवान् ज्ञात्वा निःशंका भवति कर्तव्येति ॥ २३ ॥
कुलभेदेन जीवान् प्रतिपादयन्नाह
बावीस सत्ततिष्णि असत्तय कुलको डिसदसहम्साई यापुढविदगागणिवा ऊकायाण परिसंखा ॥ २४ द्वाविंशतिः सप्त त्रीणिच सप्तच कुलकोटिशतसहस्राणि ज्ञेयाः पृथिव्युदकाग्निवायुकायानां परिसंख्या ॥ २४ ॥
वावीस - द्वाविशतिः । सत्तर - सप्त च । तिरिण य-त्रीणिच । सत्त य-सप्त च । कुलको डिसदसहस्साइं - कुलानां कोट्यः कुलकोट्यः कुलकोटोनां शतसहस्राणि तानि कुल कोटीशतसइस्राणि । द्वाविंशतिः सप्त त्रीणि च सप्त च । गेया- ज्ञातव्याः ।