________________
११०
मूलाचारे. के विकलेन्द्रियाः, के सकलेन्द्रिया इत्यत पाहसंखो गोभी भमरादियादु विकलिंदिया मुणेदवा सकलिंदिया यजलथलखचरा सुरणारयणरा य शंखः गोपालिका भ्रमरादिकाःतु विकलोंद्रयाज्ञातव्याः सकलेंद्रियाश्च जलस्थलखचराः सुरनारकनराश्चा॥२२
संखो-शंखः । गोभी-गोपालिका । भमर-भ्रमरः । प्रादिशब्दः प्रत्येकमभिसम्बध्यते, शंखादयो गोभ्यादयो - भ्रमरादयः । श्रादिशब्देन शुक्तिकृमि-वृश्चिक-मत्कुण-मक्षि
का पतंगादयः परिगृह्यन्ते । एते विगले दिया-विकलेन्द्रियाः। मुणेदव्या-ज्ञातव्याः। शेषाः पुनः सकलिंदिया-सकलेन्द्रियाः । के ते जलयलखचरा-जले चरन्तीति जलचरा मत्स्यमकरादयः स्थले चरन्तीति स्थलचराः सिंहव्याघ्रादयः खेचरन्तीति खचरा हंससारसादयः। सुरणारयणरा य-सुरा देवा भवनवासिवानव्यन्तरज्योतिष्ककल्पवासिनः, नारकाः सप्तपृथिवीनिवासिनो दुःखबहुलाः, नरा मनुष्या इति ॥२२॥
पुनरपि भेदप्रकरणायाहकुलजोणिमग्गणा विय णादवा सव्वजीवाण। णाऊण सव्वजीवे णिस्संका होदि कादवा॥२३ कुलयोनिमार्गणा अपि ज्ञातव्याः सर्वजीवानां ।