________________
पंचांचाराधिकारः ॥ ५ ॥
१८१
गोमध्यको मणिः कर्केतनमणिः । रुजगे - रुचकश्च मणी राजवर्तकरूपः । अंके - अंको मणिः पुलकवर्णः । फलिहे - स्फटिक - मणिः स्वच्छरूपः । लोहिदंकेय - लोहितांको मणी रक्तवर्णः - पद्मरागः । चंदष्पभेय - चन्द्रप्रभो मणिः । वेरुलिए वैडूर्यो मणिः । जलकंते - जल कान्तो मणिरुदकवर्णः । सूरकंतेय-सूर्यकान्तो मणिः ॥ ११ ॥
गेरुय चंदण वव्वग वयमोए तह मसारगल्लो य । से जाण पुढ विजीवा जाणित्ता परिहरेदव्वा ॥ १२ गैरिकं चंदनवप्पगवकमोचाः तथा मसारगल्लश्च । तान् जानीहि पृथिवी जीवान् ज्ञात्वा परिहर्तव्याः ॥१२ गेरु - गैरिकवर्णो मणी रुधिराक्षः । चंदण - चन्दनो मणिः श्रीखंड चन्दनगन्धः । वव्त्र - वप्पको मणिर्मरकतमनेकभेदं । वर्ग - वको मणिः वकवर्णाकारः पुष्परागः । मोए - मोचो मणि:कदलीवर्णाकारो नीलमणिः । तह तथा । मसारगल्लेय-म
पाषाणमणिविदुमवर्णः । ते जाण - तान् जानीहि । पुढ विजीवा - पृथिवी जीवान् । तैर्ज्ञातैः किं प्रयोजनं १ जाणित्ता - ज्ञात्वा । परिहरेदब्बा-परिहर्तव्या रक्षितव्याः संयमपालनाय । तानेतान् शुद्धपृथिवी जीवान् तथा खरपृथिवीजीair मणिप्रकारान स्थूलान् जानीहि ज्ञात्वा च परिहर्तव्याः । सूक्ष्माः पुनः सर्वत्र ते विज्ञातव्याः आगमबलेन । षट्त्रिंशद्भे