________________
१७६
पंचाचाराधिकारः ॥५॥ चः । तेजस्तेजस्कायस्तैजस्कायिकस्तेजोजीवः । वायुर्वायुकायो. वायुकायिको वायुजीवः । वनस्पतिर्वनिस्पतिकायो वनस्पतिकायिको वनस्पतिजीवः । यथा पृथिवी चतुष्पकारा तथाप्तेजोवायुवनस्पतयः, चशब्दतथाशब्दाभ्यां सूचितस्वात् । जीवाधिकाराद् द्वयोर्द्वयोराद्ययोस्त्यागः शेषयोः सर्वत्र ग्रहणम् । आद्यस्य प्रकारस्य भेदप्रतिपादनार्थमाह-छत्तीसविहा पुढवी-पडभीरधिका त्रिंशत् षट्त्रिंशद्विधाः प्रकारा यस्थाः सा षटत्रिंशत्पकारा पृथिवी । तिस्से-तस्याः। भेदा-प्रका. राः । इमे-प्रत्यक्षवचनं । णेया-ज्ञेया ज्ञातव्याः ॥८॥
क इमे इत्यत आहपुढवीय बालुगासकराय उवले सिला य लोणे य अय तंव तउय सीसय रुप्प सुवण्णे यवइरे य ९॥ पृथिवी च बालुका शर्करा च उपलानि शिला चलवणंच अयस्तानं त्रपुष सीसकं रूप्यं सुवर्णानि च वज्रं च
पुढवी-पृथिवी मृदूपा । बालुया-बालुका रूक्षागंगाडद्भवा । सक्करा-शर्करा परुषरूपा अत्र चतुरस्रादिरूपा । उवले -उपलानि वृत्तपाषाणरूपाणि । सिला य-शिला च वृहत्पापाणरूपा । लोणेय-लवणभेदाः सामुद्रादयः । अय-अयो लोहरूपं । तंव-तानं । तउय- पुष । सीसय-सीसकं श्यामवर्ण । रुप्प-रूप्यवर्ण शुक्लरूपं । सुवण्णेय-सुवर्णानि च