________________
पंचाचाराधिकारा॥४॥ अथ दर्शनं किं लक्षणं ? यस्य शुद्धयोऽतीचाराश्चोक्ता दर्शनं मार्गः सम्यक्त्वं कुत इत्यत पाहमग्गोमग्गफलंति य दुविहं जिणसासणे समक्खाद
मग्गो खलु सम्मत्तं मग्गफलं होइ णिव्वाणं ॥५॥ मार्गःमार्गफलं इति च द्विविधं जिनशासने समाख्यातं मार्गः खलु सम्यक्त्वं मार्गफलं भवति निर्वाणं ॥५॥
मग्गो-मार्गो मोक्षमार्गाभ्युपायः सम्यग्दर्शनज्ञानचारित्रतपसामन्योन्यापेक्षया वर्तनं । मग्गफलंति य-मार्गस्य फलं सम्यक्सुखाद्यवाप्तिःमार्गफलमिति च । इतिशब्दो व्यवच्छेदार्थः नान्यत्रैविध्यमित्यर्थः । दुविहं-द्वौ प्रकारावस्य द्विविधं तस्य भावो द्वैविध्यं । जिणसासणे-जिनस्य शासनमागमस्तस्मिन् जिनशासने । समाक्खादं-समाख्यातं सम्यगुक्तं। अथवा प्रथमान्तमेतज्जिनशासनमिति । मग्गो-मार्गः। खलुस्फुटं । सम्मत्तं-सम्यक्त्वं । ननु सम्यग्दर्शनज्ञानचारित्राणि समुदितानि मार्गस्ततः कथं सम्यक्त्वमेव मार्गः। नैष दोषा अवयवे समुदायोपचारात् मार्ग प्रति सम्यक्त्वस्य प्राधान्याद्वा । मग्गफलं-मार्गस्य फलं मार्गफलं । होइ-भवति । णिव्वाणं निर्वाणं अनन्तचतुष्टयावाप्तिः। किमुक्तं भवति, जिनशासने मार्गमार्गफलाभ्यामेव वैविध्यमाख्यातं कार्यकारणाभ्यां विनान्यस्याभावात् । प्रतो मार्गः सम्यक्त्वं कारणं, मार्गफलं च