________________
- मूलाचार-..... निर्वायं कार्यरूपं । अथवा मार्गमार्गफलाभ्यामिति कृत्वा निनशासनं द्विविधिमेव समाख्यातं । स मार्गः सम्यक्त्वं, शेषश्च फलं निर्वाण मिति ।. ___यद्यपि मार्गःसम्यक्त्वं इति व्याख्यातं तथापि सम्यकत्वस्थाद्यापि स्वरूपं न बुध्यते तद्वोधनार्थमाहभूयत्थेणाभिगदा जीवाजीवा य पुण्णपावं च। आसवसंवरणिजरबंधो मोक्खो य सम्मचं ॥६॥ भूतार्थेनाभिगता जीवाजीवाः च पुण्यपापं च। आस्रवसंवरनिर्जराबंधो मोक्षश्च सम्यक्त्वं च ॥६॥
अवयवार्थपूर्विका वाक्यार्थप्रतिपचिरिति कृत्वा तावदवयवार्थों व्याख्यायते । भूदत्येण-भूतश्चासावर्थश्च भूतार्थस्तेन यद्यप्ययं भूतशब्दः पिशाचजीवसत्यपृथिव्याधनेकार्थे वर्तते तथाप्यत्र सत्यवाची परिगृहयते, सथार्थशब्दो यद्यपि पदार्थप्रयोजनस्वरूपाद्यर्थे वर्तते तयापि स्वरूपार्थे वर्तमानः परिगृहीतोज्यार्थवाचकेन प्रयोजनामावात, भूतार्थेन सत्यस्वरूपेण याथात्म्येन । अभिगदा-अभिगताः अधिगताः स्वेन स्वेन स्वरूपेण प्रतिपन्नाः जीवाश्चेतनलक्षणा ज्ञानदर्शनसुख दुःखानुभवनशीला: । तव्यतिरिक्ता अजीवाश्च पुगलधर्माधर्मास्तिकायाकाशकाला: रूपादिगतिस्थित्यवकाशवर्तनालमसा। पुराणं शुभमकृतिस्वरूपपरिणतपुद्गलपिंडो जीवाल्हा: