________________
३७४
मूलाचारे- हिस्संकिद-शंका निश्चयाभावः शुद्धपरिणामाचलनं शंकाया निगतो निःशंकस्तस्य भावो निःशंकता तस्वरुचौ शुद्धपरिणामः । णिक्कंखिद-कांक्षा इहपरलोकमोगाभिलाषः, कांक्षाया निर्गतो निष्कांक्षस्तस्य भावो निष्कांक्षता सांसारिकसुखारुचिः। णिविदिगिंछा-विचिकित्सा जुगुप्सा अस्नानमलधारणनग्नत्वादिव्रतारुचिर्विचिकित्साया निर्गतो निर्विचिकित्सस्तस्य भावो निर्विचिकित्सता द्रव्यभावद्वारेण विपरिणामाभावः । अमूढदिहीय-मूढान्यत्रगता न मूढा अमूढा अमूढा दृष्टिः रुचिर्यस्यासावमूढदृष्टिस्तस्य भावोऽमूढदृष्टिता लौकिकसामयिकवैदिकमिथ्याव्यवहारापरिणामः । उवगृहण-उपगृहनं चातुर्वर्यश्रमणसंघदोषापहरणप्रमादाचरितस्य च संवरणं । ठिदिकरणं-अस्थिरः स्थिरः क्रियते सम्यक्त्वचारित्रादिषु स्थिरीकरणं रत्नत्रये शिथिलस्य दृढयनं हितमितोपदेशादिभिः । वच्छल्ल-चन्सलस्य भावो वात्सल्यं चातुर्वर्ण्यश्रवणसंघे सर्वथानुपवर्तनं धर्मपरिणामेनापद्यनापदि सधर्मजीवानामुपकाराय द्रव्योपदेशादिना हितमाचरणं । पभावणाय-प्रभावना च प्रभाव्यते मार्गोऽ नयेति प्रभावना वादपूजादानव्याख्यानमंत्रतंत्रादिमिः सम्यगुपदेशैमिथ्याष्टिरोधं कृत्वात्प्रणीतशासनोद्योतनं ते एते निःशंकितादयो गुणाः । अह-अष्टौ वेदितव्याः । एतेषां वैपरीत्येन तावन्तोऽतीचारा व्यतिरेकद्वारेण कथिता सुवातो नातिचारकथनं प्रतिज्ञाय शुद्धिकयनं दोषायेति ।