________________
पंचाचाराधिकारः ॥४॥ दसणमलसोहणयं वोच्छं तंसुणह एयमणा ॥३॥ दर्शनचरणविशुद्धिः अष्टविधा जिनवरैः निर्दिष्टा । दर्शनमलशोधनकं वक्ष्येतत् शृणुत एकमनसः ॥३॥
दसणचरणविसुद्धी-दर्शनावरणस्य विशुद्धिनिर्मलता द. र्शनाचरणविशुद्धिः । अहविहा-अष्टविधाऽष्टप्रकारा । जिणवरेहि-कारातीन् जयन्तीति जिनास्तेषां वराः श्रेष्ठाः जिनवरास्तैः णिदिहा-निर्दिष्टा कथिता । दसणमलसोहणयं-दर्शनस्य सम्यक्त्वस्य मलमतीचारस्तस्य शोधनक निराकरणं दर्शनमलशोधनकं । वोच्छं-वक्ष्ये । तं-तत् । सुणह-शृणुत जानीध्वं एयमणा-एकाग्रमनसः तद्तचित्ताः। पूर्व संग्रहसूत्रेण पंचाचारार्थ प्रतिज्ञा कृता, इयं पुनः संग्रहसूत्रेण दर्शनातीचारार्थ जिनवरैर्दर्शनविशुद्धिरष्टपकारा निर्दिष्टा यतोऽतस्तने दादशुद्धिरप्यष्टविधास्तदर्शनमलशोधनकं वक्ष्येऽहं यूयं शृणुतैकाग्रपनस इति ।
अष्टप्रकारा शुद्धिरुक्ता के तेऽष्टपकारा इत्यत पाहणिस्सकिदणिकखिद णिविदिगिच्छा अमूढदिट्ठी योउवगृहण ठिदिकरणं वच्छल्ल पभावणा य ते अह निःशंकिता निष्कांक्षिता निर्विचिकित्सता अमूढदृष्टिः च । उपगूहनं स्थितिकरणं वात्सल्यं प्रभावना एते अष्ट॥