________________
मूलाचार
1
दंसणं- दर्शनं सम्यक्त्वं तस्वरुचिः । गाणं-ज्ञानं तत्त्व-प्रकाशनं । चरितं - चरित्रं पापक्रिया निवृत्तिः । नात्रविभक्त्यन्तरं प्राकृतलक्षणेनाकारस्यैकारः कृतो यतः । तव्वे - तपः तपति दहति शरीरेन्द्रियाणि तपः वाह्याभ्यन्तर लक्षणं कर्मदहनसमर्थ । वीरियं - वीर्य शक्तिरस्थिशरीरगतबलं, एतेषां द्वन्द्वः दर्शनज्ञान चारित्रतपोवीर्याणि तेषां तान्येव वा श्राचारो अनुष्ठानं तस्मिन् दर्शनज्ञानचारित्र तपोवीर्याचारे । तचार्यविषयपरमार्थश्रद्धानुष्ठानं दर्शनाचारः । नात्रावलोकनार्थबाची दर्शनशब्दोऽनधिकारात् । पंचविधज्ञाननिमित्तं शास्त्राध्ययनादिक्रिया ज्ञानाचारः । प्राणिवधपरिहारेन्द्रियसंयमनप्रवृत्तिश्चारित्राचारः । कायक्लेशाद्यनुष्ठानं तप आचार:, वीर्यस्थानिन्हवो वीर्याचारः शुभविषयस्वशक्त्योत्साहः | पंचविधेपंचप्रकारे । वोच्छं वक्ष्ये कथयिष्यामि । यदिचारे अतीचारान् प्रमादादन्यथाचरितानि । अहंकारादिदं श्रहं श्रात्मनः प्रयोगः । कारिदे - कारितान । अणुमोदिदे - अनुपतान् । चशब्दः समुच्चयार्थः । कदे - कृतान् । आचारे दर्शनज्ञानचारित्र-तपोवीर्यभेदे पंचप्रकारे कृतकरितानुमतानतीचारानहं वक्ष्ये इति सम्बन्धः ।
दर्शनातिचारप्रतिपादनार्थं तावदाह ते चाष्टौ शंकादिमेदेन कुतो यतःदसणचरणविसुद्धी अट्ठा वहा जिणवरेहिं णिद्दिट्ठा
७२