________________
मूलगुणाधिकारः। देयं आत्मीयं न कर्तव्यमिति योऽयमभिप्रायस्तददत्तपरिवर्जन नामेति ॥
चतुर्थव्रतस्वरूपनिरूपणायाहमादुसुदाभगिणीवय दद्वैणित्थित्तियं च पडिरूवं इथिकहादिणियत्ती तिलोयपुजं हवे बंभं॥८॥ मातृसुताभागनीरिव दृष्ट्वा स्त्रीत्रिकं च प्रतिरूपम् । स्त्रीकथादिनिवृत्तिः त्रिलोकपूज्यं भवेत् ब्रह्म ॥ ८॥ ___ मादु-माता जननी । सुदा-सुता दुहिता । भगिणीवयभगिनी स्वसा। इवौपम्ये दृष्टव्य इवशब्द उपमार्थः । च. शब्दः समुच्चयार्थः । दठूण-दृष्ट्वा सम्यक् ज्ञात्वा । इत्यित्तिय स्त्रीणां त्रिकं वृद्धबालयौवनभेदात् । पडिरूवं च-प्रतिरूपं च चित्रलेपभेदादिषु स्थितं प्रतिक्विं देवमनुष्यतिरश्चां च रूपं । इत्यिकहादिणियत्ति-स्त्रीकथा आदिर्येषां ते स्त्रीकथादयस्तेभ्यो निवृत्तिः परिहारः स्त्रीकयादिनिवृत्तिा, वनिताकोमलालाप-मृदुस्पर्श-रूपालोकन-नृत्यगीतहासकटाक्षनिरीक्षणाद्यनुरागत्यागः । अथवा स्त्रीभक्तराजचौरकथानां परित्यागः रागादिभावेन तत्र प्रबन्धाभावः । तिलोयपुजंत्रिभिोकैः पूज्यं त्रिलोक पूज्यं देवभावनमनुष्यैरर्चनीयम् । हद-भवेत् । बभ-ब्रम्हचर्यम् । देवमनुष्यतिरश्चां वृद्धबालयौ-. वनस्वरूपं स्त्रीत्रिकं दृष्ट्रा यथासंख्येन माता सुता. भगिनीव चिन्तनीयम् । तेषां प्रतिरूपाणि च तथैव चिन्तनीयानि । स्त्री