________________
मूलाचारे कयादिकं च वर्जनीयम् । अनेन प्रकारेण सर्वपूज्यं ब्रम्हचर्य नवप्रकारमेकाशीतिभेदं द्वाषष्टयधिकं शतं चेति ।।
पंचमत्रतस्वरूपपरीक्षार्थमुत्तरसूत्रमाहजीवणिबद्धा बद्धा परिग्गहा जीवसंभवा चेव । तेसिं सकच्चागो इयरम्हि यणिभ्मओऽसंगो॥९॥ जीवनिबद्धा बद्धाः परिग्रहा जीवसंभवाश्चैव । तेषां शक्त्या त्यागः इतरस्मिन् च निर्ममोऽसंगः॥९॥
जीवणिबद्धा-जीवेषु प्राणिषु निबद्धाः प्रतिबद्धा जीवनिबद्धाः पाण्याश्रिता देह-मिथ्यात्व-वेद-राग-हास्य-रत्यरत-शोकभय-जुगुप्सा-क्रोध-मान-माया लोभादयः दासिदासमोऽश्वादयो वा । अबद्धा-अप्रतिबद्धा अनाश्रिता जीवपृथग्भूताः क्षेत्रवास्तुधनधान्यादयः। परिगहा-परिग्रहाः समन्तत आदानरूपा मूर्छा । जीवसम्भवा-जीवेभ्यः सम्भवो येषां ते जीवसम्भवा जीवोद्भवा मुक्ताफलशवशुक्तिचर्मदन्तकग्वलादयः क्रोधादयो वा श्रामण्यायोग्याः । चेव-चैव । तेसिं-तेषां सर्वेषां पूर्वोक्तानां । सक्कच्चागो-शक्त्या त्यागः सर्वात्मस्वरूपेगानभिलाषः सर्वथापरिहारः । अथवा तेषां संगानां परिग्रहाणां त्यागः पाठान्तरम् । इयरम्हि य-इतरेषु च संयमज्ञानशौचोपकरणेषु । णिम्ममो-निर्मम ममत्वरहितत्वं निःसंगत्वम् । असंगो असंगततत्वम् । किमुक्तं भवति--जीवाश्रिता ये परिग्रहा ये चानाश्रिताः क्षेत्रादयः जीवसम्भवाश्च ये तेषां सर्वेषां म