________________
१२
! मूलाचार सत्यमपि त्यक्त्वा मूत्रार्थान्यथाकयनं च त्यक्त्वा प्राचार्यादीनां वचनस्खलने दोषं वा त्यक्त्वा यद्वचनं तत्सत्यव्रतमिति ।
___ तृतीयव्रतस्वरूपनिरूपणायाहगामादिसु पडिदाई अप्पप्पहर्दि परेण संगहिदं णादाणं परदव्वं अदत्तपरिवजणं तं तु ॥७॥ ग्रामादिषु पतितादि अल्पप्रभृति परेण संगृहतिं । न आदानं परद्रव्यं अदत्तपरिवर्जनं तत् तु ॥७॥ • गामादिसु-ग्रामो वृत्तिपरिक्षिप्तजननिवासः स आदिर्येषां ते ग्रामादयस्तेषु ग्रामादिषु ग्रामखेटकर्वटमटवनगरोद्यानपथिशैलाटव्यादिषु । पडिदाइं--पतितमादियैषां तानि पतितादीनि पतितनष्टविस्मृतस्थापितादीनि । अप्पप्पहुदि-अल्पं स्तोकं प्रभृतिरादिर्येषां तान्यल्पप्रभृतीनि स्तोकबहुसूक्ष्मस्थूलादीनि । परेण-अन्येन । संगहिदाइं-संगृहीतानि चात्मवशकृतानि च क्षेत्रवास्तुधनधान्यपुस्तकोपकरणच्छात्रादीनि तेषां सर्वेषां । णादाणं-नादानं न ग्रहणं आत्मीयकरणविवर्जनम् । परदवं-परद्रव्याणां'। अदत्तपरिवजणं-अदत्तस्यापरित्यक्तस्यानभ्युपगतस्य च परिवर्जनं परिहरणं अदत्तपरिवर्जनं, अदत्तग्रहणेऽभिलाषाभावः । तंतु-तदेतत् । परद्रव्याणां ग्रामादिषु पतितादीनामल्पबहादीनां परेण संगृहीतानां च यदेतनादानमग्रहणं तददत्तपरिवर्जन व्रतमिति । अथवा परद्रव्यं परेण संगृहीतं च ग्रामादिषु पतितादिकं चाल्पादिकं च नादानं ना