SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ मूलगुणाधिकारः। · द्वितीयस्य व्रतस्य स्वरूपमाहरागादीहिं असचं चत्ता परतावसच्चवयणुतिं । सुत्तत्थाणविकहणे अयधावयणुज्झणं सच्चं ॥६॥ रागादिभिः असत्यं त्यक्त्वा परतापसत्यवचनोक्ति। सूत्रार्थविकथने अयथावचनोज्झनं सत्यम् ॥६॥ रागादीहिं-रागः स्नेहः स आदियेषां ते रागादयस्तै रागादिभी रागद्वेषमोहादिभिः पैशून्येादिभिश्च । असचंअसत्यं मृषाभिधानम् । चत्ता-त्यक्त्वा परिहत्य । परतावसचक्यणुत्ति-परतापसत्यवचनोक्ति परतापसत्यवचनमिति वा । परान् प्राणिनः तपति पीडयति परतापं परतापं च तत्सत्यवचनं च परतापसत्यवचनम् । येन सत्येनापि वचनेन परेषां परितापादयो भवन्ति तत्सत्यमपि त्यक्त्वा । अयधावयणुज्झणंन यथा अयथा तच्च तद्ववचनं चायथावचनं अपरमार्थवचनं । द्रव्यक्षेत्रकालभावाद्यनपेक्षं सर्वथास्त्येवेत्येवमादिकं तस्य सर्वस्य उज्झनं परिहरणमयथावचनोज्झनं सदाचाराचार्यान्यथार्थकथने दोषाभावो वा सत्यमिति सम्बन्धः । सुत्तत्थाणविकहणे-सूत्रं द्वादशांगचतुर्दशपूर्वाणि, अर्थो जीवादयः पदार्थास्तयोर्विकथनं प्रतिपादनं तस्मिन् सूत्रार्थविकथने, सूत्रस्य अर्थस्य च विकयनेऽयथावचनस्योत्सर्गोऽन्यथा न प्रतिपादनम् । सदाचारस्याचार्यस्य स्खलने दोषाभावो वा । सच्च-सत्यमिति । रागादिभिरसत्यमभिधानमभिप्रायं च त्यक्त्वा, परितापकर
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy