________________
मूलाबारे पर्याप्तापर्याप्त--चतुरिन्द्रियपर्याप्तापर्याप्त-पंचेन्द्रियसंझ्यसंशिपर्याप्तापर्याप्ताः । कुल-कुलानि जातिभेदाः, वटपलाशशंखशुक्तिमत्कुणपिपीलिकाभ्रमरपतङ्गपत्स्यमनुष्यादयः, सीमन्तकादिनारकभेदाः, भवनादिदेवविशेषाश्च । आऊआयुः देहधारणं, नरकतिर्यग्मनुष्यदेवगतिस्थितिकारणानि । जोणि-योनयः जीवोत्पत्तिस्थानानि, सचित्ताचित्तमिश्रशीतोष्णमिश्रसंतृतविवृतमिश्राणि । एतेषां संख्याविशेषमुत्तरत्र व्याख्यास्यामः । कायाश्चेन्द्रियाणि च गुणस्थानानि च मार्गणाश्च कुलानि चायुश्च योनयश्च कायेन्द्रियगुणमार्गणाकुलायुर्योनयस्तासु तान् वा । सव्वनीवाणं-सर्वे च ते जी. वाश्च सर्वजीवाः । सर्वशब्दः कास्यवचना, जीवाः द्रन्यप्राणभावप्राणधारणसमर्थाः, तेषां सर्वजीवानाम् । णाऊण-ज्ञात्वा स्वरूपमवबुध्य । ठाणादिसु-स्थानं कायोत्सर्गः स प्रादियेषां ते स्थानादयस्तेषु स्थानादिषु, स्थानासनशयनगमनभोजनोद्वर्तनाकुंचनप्रसारणादिक्रियाविशेषेषु । हिंसा-प्राणव्यपरोपणं आदिर्येषां ते हिंसादयस्तेषां विवर्जन हिंसादिविवर्जनं बधपरितापमर्दनादिपरिहरणमहिंसा । एतदहिसाव्रतं कायेन्द्रियगुणमार्गणाकुलायुर्योनिविषयेषु स्थितानां जीवानां कायोत्सर्गादिषु प्रदेशेषु प्रयत्नवतो हिमादिवर्जनं यत्तदहिंसाव्रतं स्यात् । अथवा कायेन्द्रियादीन् ज्ञात्ग स्थानादिषु क्रियासु जीवानां हिंसादिविवर्जनमहिंसा । कायादिस्वरूपेण स्थितानां जीवानां हिंसादिपरिहरणमाहिसेति भावः ॥