________________
मूलगुणधिकारः। कायेंद्रियगुणमार्गणाकुलायुर्योनिषु सर्वजीवानाम् । ज्ञात्वा च स्थानादिषु हिंसादिविवर्जनमहिंसा ॥५॥ ___ काय-कायाः पृथिव्यप्तेजोवायुवनस्पतित्रसाः तात्स्थ्यात् साहचर्याद्वा पृथिवीकायिकादयः काया इत्युच्यन्ते, आधारनिदेशो वा, एवमन्यत्रापि योज्यम् । इंदिय -इन्द्रियाणि पंच स्पर्शनरसनघ्राणचक्षुःश्रोत्राणि । एकं स्पर्शनमिन्द्रियं येषां ते एकेन्द्रियाः । द्वे स्पर्शनरसने इन्द्रिये येषां ते द्वीन्द्रियाः । त्रीणि स्पर्शनरसनघ्राणानीन्द्रियाणि येषां ते त्रीन्द्रियाः। चत्वारि स्पर्शनरसनघाणचक्षूषीन्द्रियाणि येषां ते चतुरिन्द्रियाः। पंच स्पर्शनरसनघ्राणचतुःश्रोत्राणीन्द्रियाणि येषां ते पंचेन्द्रियाः । गुण-गुणस्थानानि मिथ्यादृष्टिः, सासादनसम्यग्दृष्टिः, सम्यग्मिथ्यादृष्टिः, असंयतसम्यग्दृष्टिः, संयतासंयतः, प्रमत्तसंयतः, अप्रमत्तसंयतः, अपूर्वकरण: उपशमकः क्षपकः, अनिवृत्तिकरणः उपशमकः क्षपकः, सूमसाम्पराय: उपशमकः क्षपकः, उपशान्तकषायः, क्षीण; कषायः, सयोगकेवली, अयोगकेवली चेति चतुर्दशगुणस्थानानि । एतेषां स्वरूपं पर्याप्त्यधिकारे व्याख्यास्यामः, इति नेह प्रपंचः कृतः । मग्गण-मार्गणा यासु यकाभिर्वा जीवा मृग्यन्ते ताश्चतुर्दश मार्गणाः, गतीन्द्रियकाययोगवेदकषायज्ञानसंयमदर्शनलेश्यामव्यसम्यक्त्वसंड्याहाराः। एतासामपि स्वरूपं तत्रैव व्याख्यास्यामः । जीवस्थानानि चैकेन्द्रियवादरसूक्ष्मपर्याप्तापर्याप्त-द्वीन्द्रियपर्वाप्तापर्याप्त-त्रीन्द्रिय