________________
मलाचार
घानमसदभिधानं, अनृतं ऋतं सत्यं न ऋतं श्रनृतं किंपुनस्तदमशस्तं प्राणिपीडाकरं यद्वचनं तदप्रशस्तं विद्यमानार्थविषयमविद्यमानार्थविषये वा तस्यासदभिधानस्य त्यागः सत्यं । अदत्तपरिवज्जणं - अदत्तपरिवर्जनं श्रदत्तस्य परिवर्जन अदत्तपरिवर्जनं, "अदत्तादानं स्तेयं" प्रादानं ग्रहणं प्रदत्तस्य पतितविस्मृत-स्थापिताननुज्ञातादिकस्य ग्रहणं अदत्तादानं तस्य परित्यागोऽदत्तपरिवर्जनम् । चशब्दः समुच्चयार्थः । बंभं चब्रम्हचर्य च ब्रम्हेत्युच्यते जीवस्तस्यात्मवतः परांग सम्भोगनिवृत्तवृत्तेर्या ब्रम्हचर्यमित्युच्यते मैथुनपरित्यागः । स्त्रीपुंसोचारित्रमोहोदये सति रागपरिणामादिष्टयोः परस्परस्पर्शनं प्रतीच्छा मिथुनः, मिथुनस्य कर्म मैथुनं तस्य परित्यागो ब्रह्मचर्यमिति । संगवित्तीय - संगस्य परिग्रहस्य बाह्याभ्यन्तरलक्षणस्य विमुक्तिः परित्यागः संग विमुक्तिः श्रामण्यायोग्य सर्ववस्तुपरित्यागः परिग्रहासत्त्यभावः । तहा— तथा तेनैवागमोक्तेन प्रकारेण | महब्जयाई - महाव्रतानि सर्वसावद्यपरिहारकारणानि पंच न षट् । पण्णत्ता —— प्रज्ञप्तानि प्रतिपादितानि कैजिनेन्द्रैरिति शेषः । महद्भिरनुष्टितत्वात् स्वत एव वा महान्ति व्रतानि महाव्रतानि पंचैवेति ॥
जीवस्थानस्वरूपं बन्धस्थानपरित्यागं च प्रतिपादयन हिंसाविरतेलक्षणं प्रपंचयन्नाह - कार्येदियगुणमग्गणकुलाउजोणीसु सव्वजीवाणं णाऊणय ठाणादिसु हिंसादिविवज्जणमहिंसा ॥