________________
मूलगुणाधिकारः ।
द्रव्यार्थिक शिष्यानुग्रहाय संग्रहेण संख्या पूर्वकान् मूलगुगान् प्रतिपाद्य पर्यायार्थिकशिष्यावबोधनार्थ विभागेन वार्तिकद्वारेण तानेव प्रतिपादयन्नाह - हिंसाविरदी सच्चं अदचपरिवज्जणं च बंभं च । संगविमुत्तीय तहा महव्वया पंच पण्णत्ता ॥४॥ हिंसाविरतिः सत्यं अदत्तपरिवर्जनं च ब्रह्म च । संगविमुक्तिश्च तथा महाव्रतानि पंच प्रज्ञप्तानि ॥४॥
त्रिविधा चास्य शास्त्रस्याचाराख्यस्य प्रवृत्तिः, उद्देशो, लक्षणं, परीक्षा इति । तत्र नामधेयेन मूलगुणाभिधानमुद्देशः । उद्दिष्टानां तवव्यवस्थापको धर्मो लक्षणम् । लक्षितानां यथालक्षणमुपपद्यते, नेति प्रमाणैरथविवरण परीक्षा । तत्रोद्देशार्थमिदं सूत्रम् । उत्तरं पुनर्लक्षणम्, परीक्षा पुनरुत्तरत्र, एवं त्रिविधा व्याख्या । अथवा संग्रहविभाग विस्तरस्वरूपेण त्रिविधा व्याख्या | अथवा सूत्रवृत्तिवार्तिकस्वरूपेण त्रिविधा । अथवा सूत्र- प्रतिसूत्र - विभाषासूत्रस्वरूपेण त्रिविधेति । एवं सर्वत्राभिसम्बन्धः कर्तव्य इति । हिंसा - प्रमत्तयोगात्प्राणव्यपरोपणं, प्रमादः सकषायत्वं, तद्वानात्मपरिणामः प्रमत्तः प्रमत्तस्य योगः प्रमत्तयोगस्तस्मात्प्रमत्तयोगादशप्राणानां वियोगकरणं हिंसेति, तस्या विरतिः परिहार : हिंसाविरतिः सर्वजीवविषया दया । सच्चं सत्यं असदभिधानत्यागः “असदभिधानमनृतं " सच्छन्दः प्रशंसावाची न सदसत् अप्रशस्तमिति यावत् असतोऽर्थस्याभि