________________
.. समाचाराधिकारः ॥४॥ एवंविधाणचरिय-एवं विर्घा चर्चा एवंषकारानुष्ठानं । चरंति-भाचरन्ति । जे-ये। साधवो य-साधवश्व मुनयश्च । अज्जाबो-आर्याः ते साधव प्राथ। जगपुजं-जगतः पूजा जगत्पूजा तां जगत्पूजां । कित्ति-कीर्ति-यशः । सुहं च सुखं च । लघृण-लब्ध्वा। सिझंति-सिद्धयन्ति । एवंविधानचयो ये चरन्ति साधव प्रार्याश्च ते ताश्च जगत्पूजां कीर्ति सुखंच लब्ध्वा सिद्धयन्तीति ॥१६॥ .. अन्यकर्तात्मगर्वनिरासार्थसमर्पणार्थमाहएवं सामाचारोबहुभेदोवण्णिदो समासेण। वित्थारसमावण्णो वित्थरिदव्वो बुहजणेहिं ॥
एवं अनेनप्रकारेण । समाचारो सामाचार:-भागमसिद्धानुष्ठानं । बहुभेदो बहवो भेदा यस्यासौ बहुभेदो बहुप्रकारः । वण्णिदो-वर्णितः कथितः । समासेन-संक्षेपेण । वित्थारसमावण्णो-विस्तारं प्रपंचं समापनः प्राप्तो विस्तारयोग्यः । वित्थरियनो-विस्तारयितव्यः प्रपंचनीयः । बुहजणेहि-बुधजनैरागमव्याकरणादिकुशलः । एवं पूर्वस्मिन् यो बहुभेद: सामाचारोऽभूत् स मया संक्षेपेण वर्णिता यतोऽतो विस्तार योग्यत्वाद्विस्तारयितव्यो बुधजनैरिति । - इत्याचारवृत्तौ वसुनन्दिविरचितायां चतुर्थः परिच्छेदः ।
-10: