________________
अथ पंचाचाराधिकारः॥५॥
पंचाचाराधिकारप्रतिपादनार्थ नमस्कारमाहतिहुयणमन्दरमहिदे तिलोयबुद्धे तिलोगमत्थत्थे तेलोकविदिदवीरे तिविहेण य पणिविदे सिद्धे १ त्रिभुवनमदिरमहितान्त्रिलोकबुद्धान्त्रिलोकमस्तकस्थान् त्रैलोक्यविदितवीरान् त्रिविधेन च प्रणिपतामि सिद्धान्
तिहुयणमंदरमहिद-मन्दरे मेरौ महिताः पूजिताः स्नापिताः मन्दरमहिताः त्रयाणां भुवनानां लोकानां समाहारत्रिभुवनं तेन मन्दरमहितास्त्रिभुवनमन्दरमहिताः । अथवा त्रिभुवनस्य मन्दरा प्रधानाः सौधर्मेन्द्रादयस्तैर्महितास्त्रिभुवनमन्दरमहितास्तांत्रिभुवनमन्दरमहितान् । तिलोगबुद्धे-त्रिलोकानां त्रिलोकैर्वा बुद्धा ज्ञातारः ज्ञाता वा त्रिलोकबुद्धास्तांत्रिलोकबुद्धान | तिलोगमत्थत्थे-त्रिलोकस्य मस्तकं सिद्धक्षेत्रं तस्मिस्तिष्ठन्तीति त्रिलोकमस्तकस्थास्तांत्रिलोकमस्तकस्थान सिद्धक्षेत्रस्थान् । तेलोक्कविदिदवीरे-त्रिषु लोकेषु विदितः ख्यातो वीरो वीर्य येषां, अथवा त्रिलोकानां विदिताः प्रख्यातास्ते च ते वीराश्च शूराश्च त्रिलोकविदितवीरा त्रैलोक्यस्य वा विदितं वीर्य यैस्ते त्रैलोक्यविदितवीर्यास्तान त्रैलोक्यविदितवीर्यान त्रिलोकविदितवीरान्वा । तिविहेण