________________
समाचाराधिकारः ॥४॥
१६५ बाधारहिते प्रदेशे इत्यर्थः । विसुद्धसंचारे-विशुद्धः संक्लेशरहितो गुप्तो वा संचरणं संचारः मलोत्सर्गप्रदेशयोग्यः गमना. गमनार्हो वा यत्र स विशुद्धसंचारस्तस्मिन् बालवृद्धरोगिशास्त्राध्ययनयोग्ये । दो-द्वे । तिरिण-तिस्रः । अजामी -आर्याः संयतिकाः । बहुगीनो वा-बयो वा त्रिंशचत्वारिंशद्वा । सह-एकत्र । अत्थंति-तिष्ठन्ति वसन्तीनि । अग्रइस्थमिश्रनिलयेऽसन्निपाते विशुद्धसंचारे द्वे तिस्रो बहयो चार्या अन्योन्यानुकूलाः परस्पराभिरक्षणाभियुक्ता गतरोषवैरमायाः सलज्जमर्याद क्रिया अध्ययनपरिवर्तनश्रवणकथनतपोविनयसंयमेषु अनुप्रेक्षासु च तथास्थिता उपयोगयोगयुक्ताश्चाविकारवस्त्रवेषा जल्लमलविलिप्तास्त्यक्तदेहा धर्मकुलकीर्तिदीक्षाप्रतिरूपविशुद्धचर्याःसन्त्यस्तिष्ठन्तीति समुदायार्थः १६१ किं ताभिः परगृहं न कदाचिदपि गन्तव्यमित्यत: आहण ग परगेहमकजे गच्छे कजे अवस्सगमाणिजे । गणिणीमापुच्छित्वा संघाडेणेव गच्छेज ॥१९२॥ न च परगेहमकायें गच्छेयुः कार्य अवश्यंगमनीये। गणिनीमापृच्छय संघाटेनैव गच्छेयुः ॥ १९२ ॥
णय-नच । परगेहं-परगृहं गृहस्थनिलयं यतिनिलयं वा । अकज्जे-अकार्यप्रयोजने कारणमन्तरेण । गच्छे गच्छेयुः यान्ति | कज्जे-कार्ये उत्पन्ने प्रयोजने । अवस्स