SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १६६ मूलाधारेगमणिज्जे-अवश्यं गमनीयेऽवश्यं गन्तव्ये भिक्षाप्रतिक्रमणादिकाले । गणिणी-गणिनी महत्तरिका । प्रापुच्छित्ता-पापृच्छयानुज्ञा लब्ध्वा । संघाडेणेव-संघाटकेनैवान्याभिः सह । गच्छेज्ज-गच्छेयुः गच्छन्तीति । परगृहं च तामिन गन्तव्यं, कि सर्वथा नेत्याह अवश्यंगमनीये कार्ये गणिनीमापृच्छय संघाटकेनैव गन्तव्यमिति ॥ १६२ ॥ स्ववासे परगृहे वा एताः क्रियास्ताभिर्न कर्तव्या इत्यत पाह- . रोदणण्हावणभोयणपयणं सुत्तं च छविहारंभे । विरदाण पादमक्खणधोवणगेयं च ण य कुजा॥ रोदननपनभोजनपचनं सूत्रं च षड्विधारंभान् । विरतानां पादम्रक्षणधावनं गीतं च न च कुर्युः १९३।। रोदण-रोदनमश्रुविमोचनं दुःखार्तस्य । गहावण-स्नपनं बालादीनां मार्जनं । भोयण-भोजनं तेषामेव बल्भनपा. नादिक्रियाः। पयणं-पचनं ओदनादीनां पाकनिवर्तनं । सुत्तं च-सूत्रं सूत्रकरणं च । छबिहारम्भे-षट् प्रकारा येषां तेषविधास्ते च ते आरम्भाश्चेति षड्विधारम्भाः । असिमषिकृषिवाणिज्यशिल्पलेखक्रियामारम्भास्तान जीवघातहेतून् । विरादण-विरतानां संयतानां । पादमक्खणधोवणप्रक्षणं अभ्यङ्गनं धावनं प्रक्षालनं पादयोश्चरणयोम्रक्षणधावनं पादम्रक्षणधावनं । गेयं-गीतं च रागपूर्वकं गन्धर्व ।
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy