________________
समाचाराधिकारः ॥४॥ स्य च शास्त्रस्यावधारणे । कहणे-कथने पात्मज्ञातशास्त्रान्यनिवेदने । अगुपेहाए-अनुप्रेक्षासु श्रुतसर्ववस्तुध्रुवान्यत्वादिचिन्तासु श्रुतस्य शास्त्रस्यानुचिन्तने वा । तवविणयसं'जमेसु य-तपश्च विनयश्च संयमश्च तपोविनयसंयमास्तेषु चानशनप्रायश्चित्तादिक्रियामनोवचनकाया (य) स्तब्धत्वेन्द्रयनिरोधजीववधपरित्यागेषु । अविरहिद-अविरहिता: स्थिता नित्योद्युक्ताः । उपभोग-उपयोगः तात्पर्य ज्ञानाभ्यासः । जोग-योगो मनोवचनकायाः शुभानुष्ठानमेताभ्यां, जुत्तामो-युक्ताः उपयोगयोगयुक्ताः ॥ १८९ ॥
पुनरपि ताः विशेष्यन्तेअविकारवत्थवेसा जल्लमलविलित्तचत्तदेहाओ। धम्मकुलकित्तिदिक्खापडिरूपविसुद्धचरियाओ अविकारवस्त्रवेशाः जल्लमलविलिप्तत्यक्तदेहाः। धर्मकुलकीर्तिदीक्षाप्रतिरूपविशुद्धिचर्याः ॥ १९०॥
__ अविकारवत्यवेसा-न विद्यते विकारो विकृतिः स्वभावादन्यथाभावो वा येषां तेऽ विकाराः वस्त्राणि च वेषश्च शरीरादिसंस्थानं च वस्त्रवेषा अविकारा वस्त्रवेषा यासां ता अविकारवस्त्रवेषा रक्तांकितादिवस्त्रगतिभंगादिभ्रूविकारादि वेषरहिताः । जल्लं सर्वांगीनं प्रस्वेदयुक्तं रजः । अंगैकदेशभवं मलं ताभ्यां विलित्ता-विलिप्ता युक्ता जल्लमलविलिसाः ।