SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ समाचागधिकारः ॥४॥ कन्यां विधवां आंतःपुरिकां तथा स्वैरिणी सलिंगिनीं। अचिरेणालीयमानः अपवादं तत्र प्राप्नोति ॥ करणं-कन्यां विवाहयोग्यां। विहवं-विगतो मृतो गतो घवो भर्ता यस्याः सा विधवा तां । अंतेउरियं-अन्तःपुरे भवा प्रान्तःपुरिका तामान्तःपुरिकां स्वार्थे कः-राज्ञी राज्ञी. समानां विलासिनी वा । तह-तथा । सइरिणी-स्वेच्छया परकुलानीयर्तीति स्वैरिणी तां स्वेच्छाचारिणीं । सलिंगं वा -समानं लिंग सलिंगं व्रतादिकं कुल वा तद्विद्यते यस्याः सा सलिंगिनी तां । अथवा सह लिंगेन वर्तते इति सलिंगा तां स्वदर्शनेऽन्यदर्शने वा प्रव्रजितां । अचिरेण-क्षणमात्रेण मनागपि । अल्लियमाणो-आलीयमानः आश्रयमाणः सहवासालापादिक्रियां कुर्वाणः । अववाद-अपवादं अकीर्ति । तत्थतत्राश्रयणे । पप्पोदि-पाप्नोति अर्जयतीति । कन्यां विधवां प्रान्त:पुरिकां स्वैरिणी सलिंगिनी वालीयमानोऽचिरेण तत्र श्रान्तःपुरिमनोतीति ॥ १८ सर्वथा यदि नन्वार्यादिभिः सह संसर्गः सर्वथा यदि परित्यजनीयः कथं तासां प्रतिक्रमणादिकं क एवमाह सर्वथा त्यागो यावतैवं विशिष्टेन कर्तव्य इत्याहपियधम्मो दढधम्मो संविग्गोऽवजभीरु परिसुद्धो संगहणुग्गहकुसलो सददं सारक्खणाजुत्तो॥८३ प्रियधर्मा दृढधर्मा संविनःअवद्यभीरुःपारशुद्धः। .
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy