SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १५८ मूलाचारे संग्रहानुग्रहकुशलः सततं सारक्षणायुक्तः ॥ १८३॥ पियधम्मो-प्रिय इष्टो धर्मः क्षमादिकश्चारित्रं वा यस्यासौ प्रियधर्मा उपशमादिसमन्वितः । दधम्मो-दृढः स्थिरो धर्मो धर्माभिप्रायो यस्यासौ दृढधर्मा। संविग्ग-संविग्नो धर्मतत्फलविषये हर्षसम्पन्नः । अवज्जभीरु-अवद्यमीरुरवयं पापं कुत्स्यं तस्माद्भयनशीलोऽवदयभीरुः । परिसुद्धो-परिसमन्ताच्छुद्धः परिशुद्धोऽ खण्डिताचरणः । संगह-संग्रहो दीक्षाशिक्षाव्याख्यानादिभिरुपग्रहः, अणुग्गह-अनुग्रहः प्रतिपालनं आचार्यत्वादिदानं ताभ्यां तयोर्वा ( कुसलो) कुशलो निपुणः संग्रहानुग्रहकुशलः पात्रभूतं गृहाति गृहीतस्य च शास्त्रादिभिः संयोजनं । सददं-सततं सर्वकालं । सारक्खणाजुत्तो-सहारक्षणेन वर्तत इति सारक्षणा क्रिया पापक्रियानित्तिस्तया युक्त रक्षायां युक्तः हितोपदेशदातेति ॥१८३॥ गंभीरो दुद्धरिसो मिदवादी अप्पकोदुहल्लो य । चिरपबइदो गिहिदत्यो अजाणंगणधरोहोदि॥ गंभीरो दुर्धर्षो मितवादी अल्पकुतूहलश्च । चिरप्रवजितःगृहीतार्थःआयर्याणांगणधरो भवति १८४ . गंभीरो-गुणैरगाधोऽ लब्धपरिमाणः। दुद्धरिसो-दुर्धर्षोऽकदर्थ्य: स्थिरचित्तः। मिदवादी-मित परिमितं वदतीत्येवं शीलो मितवादी अल्पवदनशीलः। अप्पकोदुहल्लो य-अल्पं
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy