SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ मूलाचारेनगणयति काममलिनाकुलमपि श्रमणो विनाशयति थेरं-स्थविरं प्रात्मानं सर्वत्र सम्बंधनीयं सामाद सोपस्कारत्वात् मूत्राणां । चिरपब्वइयं चिरपत्रजित प्ररूढव्रतं आयरियं-आचार्य । बहुसुदं-बहुश्रुतं सर्वशास्त्रपारगं । तवसिं वा-तपस्विनं वा षष्ठाष्टमादिकयुक्तं चकाराद्वात्मनः समुच्चयः, अथवा स्थविरत्वादयो गुणा गृह्यते, अथवात्मनोऽन्ये स्थविरत्वादयस्तान् । ण गणेदि-न गणयति नोऽपेक्षते नो पश्यति न गणयद्वा । काममलिणो-कामेन मलिनः कश्मलः काममलिनो मैथुनेच्छोपद्रुतः । कुलमवि-कुलमपि कुलं मातृपितृकुलं सम्यक्त्वादिकं वा । समणो-श्रमणः । विणासेदि-विनाशयति विराधयति । स्थविरं चिरप्रव्रजिताचा. यबहुश्रुतं तपस्विनमात्मानं केवलं न गणयति काममलिनः सन् श्रमणः कुलमपि विनाशयति । अथवा न केवलमात्मनः स्थविरत्वादीन् गुणान् न गणयति सम्यक्त्वादिगुणानपि विनाशयति । अथवा न केवलं कुलं विनाशयति किंतु स्थविरवादीनपि न गणयति परिभवतीत्यर्थः ॥ १८१॥ एताः पुनराश्रयन् यद्यपि कुलं न विनाशयत्यात्मानं वा तथाप्यपवादं प्राप्नोतीत्याहकणं विधवं अंतेउरियं तह सइरिणी सलिंगंवा। आचरेणाल्लियमाणो अववादं तत्थ पप्पोदि ॥
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy