________________
१४८
.. मूलाचारेसंथारवासयाणं पाणीलेहाहिं दसणुजोवे । जत्तेणुभयेकाले पडिलेहाहोदिकायब्वा॥१७२॥ संस्तारावकाशानां पाणिरेखाभिः दर्शनोद्योते। यत्नेनोभयोःकालयोःप्रतिलेखा भवति कर्तव्या॥१७२॥
संथारवासयाणं-संस्तारश्चतुर्धा भूमिशिलाफलकतृणभेदात् आवासोऽवकाशः आकाशप्रदेशसमूहः संस्तरादिप्रदेश इत्यर्थः । संस्तरश्चावकाशश्च संस्तरावकाशौ तावादियेषां ते संस्तरावकाशादयः बहुवचननिर्देशादादिशब्दोपादानं तेषां संस्तरावकाशादीनां । पाणीलेहाहि-पाणिलेखाभिहस्ततलगतलेखाभिः । दंशणुज्जोवे-दर्शनस्य चक्षुष उद्योतः प्रकाशो दर्शनोद्योतस्तस्मिन् दर्शनोद्योते पाणिरेखादर्शनहेतुभूते चतुःप्रकाशे यावता चक्षुरुद्योतेन हस्तरेखा दृश्यन्ते तावति चक्षुषः प्रकाशेऽथवा पाणिरेखानामभिदर्शनं परिच्छेदस्तस्य निमित्तभूतोद्योते पाणिरेखाभिदर्शनोद्योते । अथवा प्राणिनो लिहत्यास्वादयन्ति यस्मिन् स प्राणिलेहः स चासो अभिदर्शनोद्योतश्च तस्मिन् प्राणिभोजननिमित्तनयनप्रसरे इत्यर्थः । जत्तेग-यलेन तात्पर्येण । उभये काले-उभयोः कालयोः पूर्वारहेऽपरा रहे च संस्तरादानदानकाल इत्यर्थः । पडिलेहा-प्रतिलेखा शोधनं सन्माजेन । होइ-भवति । कादव्वा-कर्तव्या। उभयोः कालयोः हस्तलेखादर्शनोद्योते संजाते यत्नेन संस्तरावकाशादीनां प्रतिलेखा भवति कर्तव्येति ॥१७२॥ परगणे वसता तेन किं स्वेच्छया प्रवर्तितव्यं ? नेत्याह
। दंशाणालेहाहि-दोपादान