________________
समाचाराधिकारः ॥ ४ ॥
१४६
उभामगादिगमणे उत्तरजोगे सकज्जआरंभे । इच्छाकारणिजुत्ते आपुच्छा होइ कायव्वा ॥ ७३
उद्भामकादिगमने उत्तरयोगे स्वकार्यारंभे । इच्छाकारनियुक्ता आपृच्छा भवति कर्तव्या ॥ १७३ ॥
उब्भामगादिगपणे - उद्भ्रामको ग्रामः चर्या वास आदियेषां ते उद्भ्रामकादयस्तेषामुद्भ्रामकादीनां गमनमनुष्ठानं तस्मिन् ग्रामभिक्षाच्युत्सर्गादिके । उत्तरजोगे - उत्तरः प्रकृष्टः योग: वृक्षमूलादिस्तस्मिन्नुत्तरयोगे । सकज्जआरम्भे- स्वस्यात्मनः कार्य प्रयोजनं तस्यारम्भ आदिक्रिया तस्मिन् स्वकार्यारंभे इच्छाकारणिजुत्तो इच्छाकारेण कर्त्तुमभिप्रायेण नियुक्त उद्युक्तः स्थितस्तेन इच्छाकारनियुक्तेन, अथवा आपृच्छाया विशेषणं इच्छाकारनियुक्ता प्रणामादिविनयनियुक्ता श्रपुच्छा आपृच्छा सर्वेषां प्रश्न: होदि भवति, कादया कर्तव्या कार्या । तेन स्वगये वसता यथा उद्भ्रामकादिगरने उत्तरयोगे स्वकार्यारम्भे इच्छाकार नियुक्तेनापृच्छा भवति कर्तव्या तथा परगणे वसतापीत्यर्थः ॥ १७३ ॥ तथा वैयावृत्यमपीत्याहगच्छे वेजावचं गिलाणगुरु बालबुड्ढसेहाणं । जहजोगं कादव्वं सगसत्तीए पयचेण ॥ १०४ ॥ गच्छे वैयावृत्त्यं ग्लानगुरुबालवृद्धशैक्षाणां । यथायोग्यं कर्तव्यं स्वकशक्त्या प्रयत्नेन ॥ १७४ ॥
.